________________
प्रथमः
प्रकाशः
३६
कर्मवैरिष्ववस्कन्ददानायेव जवाद् व्रजन् । दिनैः कियद्भिः काश्मीरदेशान्तः प्राप सोऽटवीम् ॥३१२॥ क्षुत्तृट्चरणचारित्वमार्गखेदादिना तदा । राज्ञो राज्योश्च सञ्जाताऽऽत्यन्तिकी व्याकुलात्मता ॥३१३॥ ततश्चिन्तातुरः सिंहश्चतुरः सचिवेश्वरः । सूरीन् प्राह प्रभो ! युक्त्या नृपः पर्यवसाप्यताम् ॥३१४॥ धर्मस्थानेऽन्यदा नूनमुड्डा हो भविता जने । गत्वा तेऽप्यभ्यधुर्भूप ! लाभालाभं विभावय ॥३१५॥ सहसा विहितं कार्यं न प्रायेण प्रमाण्यते । आकाराः सहसाकारादयः सर्वत्र हि स्मृताः ॥ ३९६ ॥ अतिक्लान्तोऽपि वपुषाऽनतिक्लान्तस्तु चेतसा । भूपोऽभ्यधात् प्रत्यशक्तमुपदेश्यमिदं प्रभो ! ॥३१७॥ अहं तु स्वोक्तनिर्वाहेऽलङ्कर्मीणैकविक्रमः । प्राणप्रहाणमप्यस्तु नान्यथाऽभिग्रहस्तु मे ॥ ३१८ || उत्साहयन्त्यौ सोत्साहे तन्निर्वाहे निजं प्रियम् । वीरपल्यौ वीरपत्नीव्रतं ते अपि तेनतुः ॥३१९॥ अहो धर्मैकचित्तत्वमहो धर्मिकुटुम्बता । अहो सात्विकतेत्युच्चैस्तदाऽश्लाधि न कैर्नृपः ॥ ३२० ॥ अथ किं भावि किं कृत्यमिति चिन्ताचिताकुलः । तत्र रात्रौ सिंहमन्त्री सुप्तस्तप्तहृदम्बुजः ॥३२१ ॥ विमलाद्रेरधिष्टाता स्वप्नान्तर्यक्षगोमुखः । साक्षाद्भूयाऽऽचचक्षे तं चिन्तां मन्त्रीश ! मा कृथाः ॥ ३२२ ॥
१. निंदा ।
श्राद्धविधिप्रकरणम्