________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAA
तदाप्तसम्यक्सम्यक्त्वस्तद्यात्रोत्कण्ठया स्यात् । मन्त्रिणः सोऽभ्यधाद् भो भोस्त्वर्यतां सज्जिकाविधौ ॥३०१॥ विमलाद्रौ युगादीशे वन्दितेऽन्नोदके मया । ग्राह्ये गम्यं चाज्रिचारेणैवेत्यभ्यग्रहीच्च सः ॥३०२॥ श्रुत्वेति हंसीसारस्यौ भूयांसोऽन्यजना अपि । तथैवाभि जगृहिरे यथा राजा तथा प्रजाः ॥३०३॥ स किं भावो भवेद्यत्र कार्ये काऽपि विचारणा । न व्यचार्यत राजाद्यैरितीवाऽभिग्रहग्रहे ॥३०४॥ क्वेदं स्थानं क्वऽचात्यन्तं दूरे श्रीविमलाद्रिराट् । अहहा ! सहसा कोऽयमभिग्रहमहाग्रहः ॥३०५॥ इत्याद्यवादिषुर्मन्त्रिमुख्याः क्षितिपतिं प्रति । गुरवोऽप्यूचिरे राजन् ! विचार्यैवाभिगृह्यते ॥३०६॥ अविचार्यकृते कार्ये पश्चात्तापोऽपि जायते । तस्मिन्न कश्चिल्लाभश्च दुष्कृतं प्रत्युताऽऽर्तितः ॥३०७॥ महोत्साहो महीनेता प्रत्यवोचत हे प्रभो ! । अभिग्रहे गृहीते प्राक् का व्यर्थाऽथ विचारणा ॥३०८।। पीतनीरस्य किं नाम मन्दिरादिकपृच्छया । कृतक्षौरस्य वा पुंसः किं नक्षत्रपरीक्षया ? ॥३०९॥ पश्चात्तापं विनैवाऽहं निर्वाहं स्वमभिग्रहम् । नेतर् ! नेताऽस्मि श्रीदेवगुरुपादप्रसादतः ॥३१०॥ व्योम्नोऽन्तमेति किं नार्कप्रसादादरुणोऽन्वहम् । इत्युक्त्वा सङ्घसार्थे द्राक् सबलोऽप्यचलन्नृपः ॥३११॥
१. अभिग्रहमकुर्वन् ।