________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
अस्यामेवावसर्पिण्यां चतुर्णामादितोऽर्हताम् । जाताऽत्र समवसृतिरद्याप्येकोनविंशतेः ॥२७८॥ भाविनी नेमिवर्जानामनन्तानां च सिद्धयः । भूता अपि भवित्र्यश्च सिद्धक्षेत्रमिदं ततः ॥२७९॥ युग्मम् || अस्य सिद्धगिरेः श्लाघां विश्वश्लाघ्या जिना अपि । कुर्युर्महाविदेहस्था भव्याः शश्वत्स्मरन्ति च ॥२८०॥ तीर्थेऽत्र शाश्वतप्राये यात्रा स्नात्रार्चना तपः । दानादि चानन्तफलं सुस्थाने बीजवद्भवेत् ॥२८१॥ उक्तञ्च–पल्योपमसहस्रं च ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे सागरोपमसम्मितम् ॥२८२॥ शत्रुञ्जये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं च पूजास्नात्रविधानतः ॥२८३॥ एकैकस्मिन्पदे दत्ते पुण्डरीकगिरि प्रति । भवकोटिकृतेभ्योऽपि पातकेभ्यः प्रमुच्यते ॥२८४॥ अन्यत्र पूर्वकोट्या यत् शुभध्यानेन शुद्धधीः । प्राणी बध्नाति सत्कर्म मुहूर्तादिह तद् ध्रुवम् ॥२८५॥ जं कोडीए पुण्णं कामिअआहारमोइआए उ । तं लहइ तित्थपुण्णं एगोवासेण सेत्तुंजे ॥२८६॥ जं किंचि नामतित्थं सग्गे पायालि माणुसे लोए । तं सव्वमेव दिटुं पुंडरिए वंदिए संते ॥२८७।। पडिलंभंते संघ दिट्ठमदिढे अ साहु सित्तुंजे । कोडिगुणं च अदिढे दिढे अणंतयं होइ ॥२८८॥ नवकारपोरिसीए पुरिमद्वेगासणं च आयामं । पुंडरिअं च सरंतो फलकंखी कुणइ अभत्तटुं ॥२८९॥