SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधिप्रकरणम् प्रकाशः तच्च तत्त्वत्रयीरूपं तस्यां मुख्यः पुनर्जिनः । जिनेष्वादियुगादीशस्तीर्थेऽतिमहिमाऽस्य च ॥२६६॥ विमलाद्रिश्च तीर्थानां प्रथम तीर्थमीरितम् । तस्य नानाभिधानानि भिन्नभिन्नावदाततः ॥२६७॥ यदाहुः-सिद्धक्षेत्रं तीर्थराजो मरुदेवो भगीरथः । विमलाद्रिर्बाहुबली सहस्रकमलस्तथा ॥२६८॥ तालध्वजः कदम्बश्च शतपत्रो नगाधिराट् । अष्टोत्तरशतकूट: सहस्रपत्र इत्यपि ॥२६९॥ ढङ्को लौहित्यः कपर्दिनिवासः सिद्धिशेखरः । पुण्डरीकस्तथा मुक्तिनिलयः सिद्धिपर्वतः ॥२७०॥ शत्रुञ्जयश्चेति नामधेयानामेकविंशतिः । गीयते तस्य तीर्थस्य कृता सुरनर्षिभिः ॥२७१॥ चतुर्भिः कलापक्रम् ॥ इत्यस्यामवसर्पिण्यां नामान्यस्यैकविंशतिः । कानिचित्तेषु भूतानि भावीन्यथ च कानिचित् ॥२७२॥ एषु शत्रुञ्जयेत्याख्या भवतैव भवान्तरे । निर्मास्यतेऽनुभूतार्थेत्यश्रीष्म ज्ञानिसन्निधौ ॥२७३॥ महाकल्पे श्रीसुधर्मस्वाम्युपज्ञे पुनः स्मृतम् । शतमष्टोत्तरं नाम्नामस्य तीर्थस्य तद्यथा ॥२७४॥ विमलाद्रिः सुरशैलः सिद्धिक्षेत्रं महाचलः । शत्रुञ्जयः पुण्डरीकः पुण्यराशिः श्रियःपदम् ॥२७५॥ सुभद्रः पर्वतेन्द्रश्च दृढशक्तिरकर्मकः । महापद्मः पुष्पदन्तः शाश्वतः सर्वकामदः ॥२७६॥ मुक्तिगेहं महातीर्थं पृथ्वीपीठं प्रभोः पदम् । पातालमूलः कैलाशः क्षितिमण्डलमण्डनम् ॥२७७॥ इत्यादि ।
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy