________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AN
हूणचीणमहाचीणकच्छकर्णाटकुङ्कणाः । सपादलक्षनेपालकन्यकुब्जककुन्तलाः ॥२३३॥ मगधा निषधाः सिन्धुर्विदर्भद्रविडोण्ड्रकाः । इत्याद्यनेकदेशानामाहूयन्त नृपा इह ॥२३४॥ चतुर्भिः कलापकम् स्वामिन् ! मलयदेशेशः तवाहानाय नः प्रभुः । मां प्रेषीत्तेन तत्रैत्याऽलङ्करुष्व स्वयंवरम् ॥२३५॥ दूतेनेत्युदिते तत्र यातुं स्थातुं च तन्मनः । तत्प्राप्त्याशासंशयाभ्यां दोलाऽऽन्दोलिततां दधौ ॥२३६॥ पञ्चभिः सह गन्तव्यमिति ध्यायंश्च सोऽचलत् । प्रोत्साहितश्च विहगैर्द्राक् तत्रागात्परेऽपि च ॥२३७॥ उच्चैरावर्जिताः सर्वे भूपा भूपेन तत्र ते । मञ्चानुच्चानलञ्चक्रुर्विमानानिव नाकिनः ॥२३८॥ अथ स्नातानुलिप्ते ते शुचिवस्त्रविभूषणे । तस्मिन्सुखासनासीने ब्राह्मीलक्ष्म्याविवेयतुः ॥२३९॥ अहंपूर्विकयापि क्ष्मानायकैः क्रायकैरिव । तयोर्वृत्तीप्सया मूल्यमतुल्यं स्वस्वदृङ्मनः ॥२४०॥ ततस्ते विवशाः सर्वेऽप्युर्वीशा विविधात्मभिः । चेष्टाभिः पर्यचेष्टन्त स्पष्टयन्त इवाशयम् ॥२४१॥ एष निःशेषराजानां राजा राजगृहेश्वरः । एष द्वेषिसुखध्वंसिकौशलः कौशलेश्वरः ॥२४२॥ अयं स्वयंवरश्रीभिः स्फूर्जन् गुर्जरराजभूः । अयं जयन्तजैत्रद्धिबन्धुरः सिन्धुराजसूः ॥२४३॥
१. क्रयकारकैरिव । २. वृत्तिप्राप्तीच्छया ।