SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः २८ तेषामुपरि तस्याश्च पुत्री पात्री श्रियोऽजनि । हंसी हंसीव विशदोभयपक्षा सुलक्षणा ॥२२२॥ स्वल्पमुच्चैः प्रियमिति पुत्रेभ्योऽपि प्रियाऽथ सा । वर्द्धमाना क्रमाद्यावदजनिष्टाऽष्टवत्सरा ॥२२३॥ तावत्तया द्वितीयापि प्रासूयत सुतोत्तमा । सारसी सारसीवोच्चैर्लावण्ये सरसीजले ॥२२४॥ रोदस्योः सारमादाय धात्रा ते निर्मिते ध्रुवम् । तयोरेव मिथो यस्मादुपमानोपमेयता ॥ २२५ ॥ द्वयोरपि तयोः कापि प्रीतिः स्फीतिमगात्तथा । यथा ताभ्यां वपुर्भेदोऽप्युद्वेगकृदमन्यत ॥ २२६ ॥ प्राप्तापि यौवनं क्रीडावनं मदनदन्तिनः । हंसी विवाहं नामंस्त तद्वियोगभियाऽऽतुरा ॥ २२७॥ क्रमाच्च सारसी सापि कन्याऽभूद्यौवनोन्मुखी । ताभ्यां प्रीत्या प्रतिज्ञातमेक एव वरोऽस्तु नौ ॥ २२८ ॥ ततस्तयोः स्वयं पित्रा स्वयंवरणमण्डपः । अमण्ड्यत मनोऽभीष्टवरप्राप्त्यै यथाविधि ॥२२९॥ तत्रासीन्मञ्चरचना वचनातिगवैभवा । तृणधान्यसमूहास्तु क्ष्माभृद्व्यूहा इवाबभुः ॥ २३०॥ अङ्गबङ्गकलिङ्गान्ध्रा जालन्धरमरुस्थले । लाटभोटमहाभोटमेदपाटविराटकाः ॥२३१॥ गौडचौडमहाराष्ट्रसुराष्ट्रकुरुगुर्जराः । आभीरकीरकाश्मीरगौल्लपञ्चालमालवाः ॥ २३२ ॥ १. लावण्यसरसीजले इत्यपि पाठः । २. आकाशपृथ्व्योः । श्राद्धविधिप्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy