________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
ऋषिमुख्यो बभाषे भो ! बालोऽयं भाषयिष्यते । दूषितः क्षितिपोऽप्याख्यत् प्रेक्ष्यते किं हि तर्हि नः ॥२११॥ मुनिनाऽवादि वन्दस्व विधिना शुकराज ! नः । तमवन्दत सोऽप्युच्चैः सूत्रोच्चारपुरस्सरम् ॥२१२॥ अहो महीयान् महिमा महर्षेर्यदयं शिशुः । द्रागेव स्फुटवाग् मन्त्रतन्त्राद्यपि विनाऽजनि ॥२१३॥ इति चित्तचमत्काराद्वैते जाते सभासदाम् । किमेतदिति भूपेनाऽनुयुक्तः प्रोक्तवान् प्रभुः ॥२१४॥ 'सकर्णाऽऽकर्णयाऽत्रार्थे कारणं प्राग्भवोद्भवम् । आसीन्मलयदेशान्तः श्रीभद्दिलपुरं पुरा ॥२१५॥ तत्र चित्रचरित्रश्च जितारिरिति भूपतिः । अलङ्काराश्रितांश्चक्रेऽर्थिनः प्रत्यर्थिनश्च यः ॥२१६।। चातुर्यौदार्यशौर्यादिगुणानां स्थानमन्यदा । आस्थानस्थं तमुर्वीशमेवं वेत्री व्यजिज्ञपत् ॥२१७॥ राज्ञो विजयदेवस्य देव ! देवदिदृक्षया । दूतः पूतहृदाकूतस्तिष्ठति द्वारि वारितः ॥२१८॥ प्रवेशयेति राज्ञोक्ते तेन सोऽन्तःप्रवेशितः । नृपं प्रणम्य सत्योक्तिः कृत्यवित् कृत्यमित्यवक् ॥२१९॥ देव ! देवपुरं नाम साक्षाद्देवपुरं परम् । राजा विजयदेवश्चास्मिस्त्रिविक्रमविक्रमः ॥२२०॥ पट्टप्रतिष्ठिता तस्य प्रिया प्रीतिमती सती । सा सन्नीतिरिवोपायान् प्रासूत चतुरः सुतान् ॥२२१॥
१. हे विद्वन् ! त्वं श्रृणु । २. याचकान् भूषणाश्रितान् शत्रून् परिपूर्णतया कारागृहपतितान् चक्रे । ३. द्वारपालः । ४. विष्णुः ।