________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
असौ स शौयौदार्यश्रीरङ्गभूरङ्गभूपतिः । असौ सुसौम्यः कार्तिकृतालिङ्गः कलिङ्गाट् ॥२४४॥ रूपेणायं द्विधानङ्गगर्वहृद् बङ्गपार्थिवः । निस्सीममा लयोऽप्येष मालवेश इति श्रुतः ॥२४५॥ सैष नेपालभूपालः प्रजापालः कृपालयः । सोऽयं तत्तद्गुणोद्गीर्णगौरवः कौरवप्रभुः ॥२४६॥ भूषानिषेधी निषधाधीशोऽयं द्वेषियोषिताम् । यशःसौरभ्यमलयाचलोऽयं मलयाधिपः ॥२४७॥ सख्या प्रख्याप्यमानेषु नामग्राहं नृपेष्विति । ववे जितारिरेताभ्यामिन्दुमत्याऽजराजवत् ॥२४८॥ सप्तभिः कुलकम् । स्पृहोत्सुकत्वसन्देहदानन्दविषादिताः । त्रपानुतापासूयाश्च तदान्येऽन्वभवन्नृपाः ॥२४९।। स्वयंवरे नृपाः केऽपि केऽपि स्वागमने परे । स्वकदैवे भवेऽप्येके तदा निर्वेदमासदन् । २५०॥ उपायंस्त प्रशस्तेऽह्नि महेशस्ते महामहैः । धनसैन्यप्रदानाद्यैर्बहु सन्मानमाप च ॥२५१॥ पुण्यविना मनोऽभीष्टप्राप्तिर्नेति सुनिश्चितम् । महान्तोऽपि हताशा यत्तत्रान्ये भूभुजोऽभवन् ॥२५२॥ ईष्योत्कर्षाद् द्विषन्तोऽपि तं भूयांसोऽपि तेऽद्भुतम् । न किञ्चिद्विप्रचक्रुः क्व जितारेर्वा पराभवः ॥२५३॥ सरतिप्रीतिकन्दर्प दर्प चाऽपरभूभुजाम् । विडम्बयन्नयं ताभ्यां भ्राजिष्णुः स्वपुरं ययौ ॥२५४॥
१. निस्सीमलक्ष्म्यालयः ।