SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि अथ प्रशस्तिः अथ प्रशस्तिः प्रकरणम् विख्याततपेस्याख्या, जगति जगच्चन्द्रसूरयोऽभूवन् । श्रीदेवसुन्दरगुरूत्तमाश्च तदनुक्रमाद्विदिताः ॥१॥ पञ्च च तेषां शिष्यास्तेष्वाद्या ज्ञानसागरा गुरवः । विविधावचूर्णिलहरिप्रकटनतः सान्वयाह्वानाः ॥२॥ श्रुतमतविविधालापकसमुद्धृताः समभवंश्च सूरीन्द्राः । कुलमण्डना द्वितीयाः, श्रीगुणरत्नास्तृतीयाश्च ॥३॥ षट्दर्शनवृत्तिक्रियारत्नसमुच्चयविचारनिचयसृजः । श्रीभुवनसुन्दरादिषु भेजुर्विद्यागुरुत्वं ये ॥४॥ श्रीसोमसुन्दरगुरुप्रवरास्तुर्या अहार्यमहिमानः । येभ्यः सन्ततिरुच्चैर्भवति द्वेधा सुधर्मभ्यः ॥५॥ यतिजीतकल्पविवृतश्च पञ्चमाः साधुरत्नसूरिवराः । यैर्मादृशोऽप्यकृष्यत करप्रयोगेण भवकूपात् ॥६॥ श्रीदेवसुन्दरगुरोः, पट्टे श्रीसोमसुन्दरगणेन्द्राः । युगवरपदवी प्राप्तास्तेषां शिष्याश्च पञ्चैते ॥७॥ मारीत्यवमनिराकृतिसहस्रनामस्मृतिप्रभृतिकृत्यैः । श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥८॥ श्रीजयचन्द्रगणेन्द्रा, निस्तन्द्राः सङ्घगच्छकार्येषु । श्रीभुवनसुन्दरवराः, दूरविहारैर्गणोपकृतः ॥९॥ विषममहाविद्यातद्विडम्बनाब्धौ तरीव वृत्तिर्यैः । विदधे यज्ज्ञाननिधि, मदादिशिष्या उपाजीवन् ॥१०॥ AAAAAAAAAAAAAAAAAAAAAAAAA ४९५
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy