SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि अथ प्रशस्तिः प्रकरणम् एकाङ्गा अप्येकादशाङ्गिनश्च जिनसुन्दराचार्याः । निर्ग्रन्था ग्रन्थकृतः, श्रीमज्जिनकीर्तिगुरवश्च ॥११॥ एषां श्रीसुगुरूणां, प्रसादतः षट्खतिथिमिते (१५०६) वर्षे । श्राद्धविधिसूत्रवृत्ति, व्यधित श्रीरत्नशेखरः सूरिः ॥१२॥ अत्र गुणसत्रविज्ञावतंसजिनहंसगणिवरप्रमुखैः । शोधनलिखनादिविधौ व्यधायि सान्निध्यमुद्युक्तैः ॥१३॥ विधिवैविध्याच्छुतगतनैयत्याऽदर्शनाच्च यत् किञ्चित् । अत्रोत्सूत्रमसूत्र्यत, तन्मिथ्यादुष्कृतं मेऽस्तु ॥१४॥ विधिकौमुदीति नाम्न्यां, वृत्तावस्यां विलोकितैर्वर्णैः । श्लोकाः सहस्रषट्कं, सप्तशती चैकषष्ट्यधिका (६७६१) ॥१५॥ श्राद्धहितार्थं विहिता, श्राद्धविधिप्रकरणस्य सूत्रयुता । वृत्तिरियं चिरसमयं, जयताज्जयदायिनी कृतिनाम् ॥१६॥ ॥ इति प्रशस्तिः ।। ॥ इति तपागच्छनायकश्रीरत्नशेखरसूरिकृता विधिकौमुदीनाम्नी श्राद्धविधिप्रकरणवृत्तिः समाप्ता ॥ ___ (सर्वग्रन्थश्लोकमानं ६७६१) ॥ समाप्तमिदं स्वोपज्ञवृत्तियुतं श्राद्धविधिप्रकरणम् ॥ ४९६
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy