SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि प्रकरणम् प्रकाश: एवमाराधनया यदि तद्भवे न सिध्यति तदापि सुदेवसुमनुष्यभवाष्टकान्तः सिद्ध्यत्येव, 'सत्तट्ठभवग्गहणाई नाइक्कमेइ' इत्यागमात् । द्वारं १८। इति षोडशगाथार्थः ॥ उपसंहरन् दिनकृत्यादिफलमाह एअं गिहिधम्मविहि, पइदिअहं निव्वहंति जे गिहिणो । इहभवि परभवि निव्वुइसुहं लहुं ते लहंति धुवं ॥१७॥ एवमनन्तरोदिनं गृहिणः श्राद्धस्य धर्मविधि दिनकृत्यादिद्वारषट्कात्मकं प्रतिदिवसं निरन्तरं निर्वहन्ति सम्यक् पालयन्ति, | ये गृहिणः श्राद्धा, त इहास्मिन् वर्तमाने भवे परस्मिन्नागामिन्यनन्तरे भवाष्टकान्तः परंपरे वा भवे निर्वृतिः सौस्थ्यं तया हेतुभूतया सुखं पुनरावृत्तिव्याख्यया निर्वृतिर्मोक्षः तत्सुखं च लघु शीघ्रं ध्रुवमवश्यं ते लभन्ते प्राप्नुवन्ति । इति सप्तदशगाथार्थः ॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिविरचितायां श्रीविधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्तौ जन्मकृत्यप्रकाशकः षष्ठः प्रकाशः ॥६॥ ॥ समाप्तं श्रीश्राद्धविधिप्रकरणम् ॥ ४९४
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy