SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि षष्ठः प्रकरणम् प्रकाश: एवं संलेखनां कृत्वा सकलश्रावकधर्मस्योद्यापनार्थमिवान्तेऽपि संयमं प्रतिपद्यते । यतःएगदिवसंपि जीवो, पव्वज्जमुवागओ अणन्नमणो । जइवि न पावइ मुक्खं, अवस्स वेमाणिओ होइ ॥ नलनृपभ्रातृकूबेरपुत्रो नवोढः पञ्चदिनायुर्ज्ञान्युक्तं श्रुत्वा प्रव्रजितः सिद्धः । हरिवाहननृपो नवप्रहरायुर्ज्ञान्युक्त्या प्रव्रज्य सर्वार्थसिद्धि गतः । संस्तारकदीक्षावसरे च प्रभावनाद्यर्थं यथाशक्ति धर्मव्ययः कार्यः । यथा तदवसरे सप्तक्षेत्र्यां सप्तकोटिद्रव्यव्ययं थिरापद्रीयः सङ्घपति-आभूश्चक्रे । यस्य तु न संयमयोगः स संलेखनां कृत्वा शत्रुञ्जयतीर्थादिसुस्थाने निर्दोषस्थण्डिले विधिना चतुर्विधाहारप्रत्याख्यानरूपमनशनमानन्दादिवत्प्रतिपद्यते । यतः तवनिअमेण य मुक्खो, दाणेण य हुँति उत्तमा भोगा । देवच्चणेण रज्जं, अणसणमरणेण इंदत्तं ॥ लोकेऽपि-समाः सहस्राणि च सप्त वै जले, दशैव चाग्नौ पवने च षोडश । महाहवे षष्टिरशीतिगोग्रहे, अनाशने भारत ! चाक्षया गतिः ॥ ततः सर्वातिचारपरिहारचतुःशरणादिरूपामाराधनां कुर्यात् । दशद्वारात्मिका त्वाराधनैवं प्रोक्ताआलोअसु अइआरे, वयाई उच्चरसु खमसु जीवेसु । वोसिरसु भाविअप्पा, अट्ठारस पावठाणाई ॥ चउसरणं दुक्कडगरिहणं च सुकडाणुमोअणं कुणसु । सुहभावणं अणसणं, पंचनमुक्कारसरणं च ॥ ४९३
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy