________________
श्राद्धविधि
षष्ठः
प्रकरणम्
प्रकाश:
| यदुक्तं षोडशके
यद्यस्य सत्कमनुचितमिह वित्तं तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद् भावशुद्ध स्यात् ॥
न च भूखनन-पूरण-दलपाटकानयन-शिलादिघटन-चयनादिमहारम्भदोषश्चैत्यादिकरणे आशङ्क्यो , यतनाप्रवृत्तत्वेन निर्दोषत्वान्नानाप्रतिमास्थापन-पूजनसङ्घसमागम-धर्मदेशनाकरण-दर्शनव्रतादिप्रतिपत्ति-शासनप्रभावनानुमोदनाद्यनन्तपुण्यहेतुत्वेन शुभोदर्कत्वाच्च । यदाहु:
जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥ द्रव्यस्तवे कूपदृष्टान्तादि प्रागुक्तम् । जीर्णोद्धारे त्वेवं विशिष्योपक्रम्यम् । यतःनवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥ जीर्णे समुद्धते यावत्तावत्पुण्यं न नूतने । उपमर्दो महांस्तत्र, स्वचैत्यख्यातिधीरपि ॥ तथा-राया अमच्चसिट्ठी, कोटुंबीए वि देसणं काउं । जिण्णे पुव्वाययणे, जिणकप्पियावि कारवइ ॥ जिणभवणाई जं उद्धरंति भत्तीइ सडिअपडिआई । ते उद्धरति अप्पं, भीमाओ भवसमुद्दाओ ॥ यथा-पित्रा साभिग्रहं चिन्तिते शत्रुञ्जयोद्धारे मन्त्रिवाग्भटेन प्रारम्भिते महेभ्यः स्वद्रव्यक्षेपे टिप्पमाने टीमाणीयकुतुपि
४७३