________________
श्राद्धविधि
प्रकरणम् |
प्रकाश:
कषड्द्रम्मनीविकभीमेन घृतं विक्रीय सर्वस्वदाने सर्वोपरि तन्नामलेखनस्वर्णनिधिलाभादि प्रसिद्धम् । अथ काष्ठचैत्यपदे | शैलचैत्यं द्विबा निष्पन्नं, वर्धापनिकादातुर्द्वात्रिंशत् स्वर्णजिह्वा मन्त्रिणा दत्ताः । प्रासादो विद्युता विदीर्ण इत्यन्येनोक्तौ च द्विगुणा वर्द्धापनिका 'अहं जीवन् द्वितीयोद्धारेऽपि शक्तोऽस्मि' इति तथा चक्रे । लक्षत्रयोनं द्रव्यकोटीत्रयं लग्नम् । पूजार्थं चतुर्विंशतिामाश्चतुर्विंशतिरारामाश्च दत्ताः । तद्भात्रा आबंडमन्त्रिणा भृगुपुरे दुष्टव्यन्तर्युपद्रवनिवारक श्रीहेमसूरिसान्निध्यादष्टादशहस्तोच्चशकुनिकाविहारोद्धारः कारितः । मल्लिकार्जुननृपकोशीयो द्वात्रिंशत् स्वर्णघटीमितः कलशस्तत्र न्यस्तो हैमदण्डध्वजादि च। मङ्गल्यदीपावसरे च द्वात्रिंशल्लक्षद्रम्मा अर्थिभ्यो दत्ताः । जीर्णचैत्योद्धारकारणपूर्वकमेव नव्यचैत्यकारापणमुचितम् । तत एव संप्रतिनृपतिनैकोननवतिसहस्रा जीर्णोद्धाराः कारिताः । नव्यचैत्यानि तु षट्त्रिंशत्सहस्राः । एवं कुमारपालवस्तुपालाद्यैरपि नव्यचैत्येभ्यो जीर्णोद्धारा बहव एव व्यधाप्यन्त । तत्सङ्ख्याद्यपि प्रागुक्तम् । चैत्ये च निष्पन्ने शीघ्रमेव प्रतिमा स्थापयेत् । यदाह श्रीहरिभद्रसूरि:जिनभवने जिनबिम्ब, कारयितव्यं द्रुतं तु बुद्धिमता । साधिष्ठानं ह्येवं तद् भवनं वृद्धिमद्भवति ॥
चैत्ये च कुण्डिकाकलशौरसप्रदीपादिसर्वाङ्गीणोपस्करकारणं, यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च । राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिप्रदानम् । यथा-श्रीरैवते मालवीयजाकुड्यामात्येन पूर्वं काष्ठचैत्यस्थाने पाषाणबद्धः प्रासादः प्रारम्भितः । स च दुर्दैवतः स्वर्गतः, ततः पञ्चत्रिंशदधिकशतवर्षातिक्रमे सिद्धजयसिंहनृपस्य दण्डेशेन सज्जनेन |
४७४