________________
श्राद्धविधि
षष्ठः
प्रकरणम्
प्रकाश:
न्यायार्जितवित्तेशो, मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥ पाएणऽणंतदेउलजिणपडिमा कारिआ उ जीवेण । असमंजसवित्तीए, न हु सिद्धो दसणलवो वि ॥ भवणं जिणस्स न कयं, न य बिंबं नेव पूइआ साहू । दुद्धरवयं न धरियं, जम्मो परिहारिओ तेहिं ॥ यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य । किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥ चैत्यविधापनविधिश्च शुद्धभूमिदलभृतकाद्यवञ्चनसूत्रधारसन्माननादिः प्रागुक्तो गृहवत्सर्वोऽपि यथोचितं सविशेषो ज्ञेयः ।
यत:
धम्मत्थमुज्जएणं, कस्स वि अप्पत्तियं न कायव्वं । इअ संजमोवि सेओ, एत्थ य भयवं उदाहरणं ॥ सो तावसासमाओ, तेर्सि अप्पत्तिअं मुणेऊणं । परं अबोहिबीअं तओ गओ हंत कालेवि ॥ कट्ठाई विदलं इह, सुद्धं जं देवया दुववणाओ । णो अविहिणोवणीअं, सयं च काराविअंजं नो । कम्मकरा य वराया, अहिगेण दर्द उति परिओसं । तुट्ठा य तत्थ कम्म, तत्तो अहिगं पकुव्वंति ॥ चैत्यार्चादिविधापने च भावशुद्ध्यै गुरुसङ्घसमक्षमेवं वाच्यम् । यदत्राऽविधिना किञ्चित्परवित्तमागतं तत्पुण्यं तस्य भूयात् ।
४७२