SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः २३ 1 श्रुत्वाऽदः परमानन्दकन्द कन्दलताम्बुदम् । जगाद 'जगतीजानिजनन् स्वप्नविधेः फलम् ॥१६७॥ एवंविधस्य स्वप्नस्याप्य स्वप्नस्येव दर्शनम् । दुर्लभं लभते भूरिभाग्यैः पूर्णफलं च तत् ॥१६८॥ दिव्यरूपस्वरूपौ ते दिव्यस्वप्नादतः प्रिये ! चन्द्रार्काविव पूर्वस्यां भाविनौ नन्दनौ क्रमात् ॥१६९॥ श्रेष्ठौ पक्षिकुले कीरमरालौ सर्वथा यथा । तथा भविष्यतः सुभ्रु ! पुत्रौ नक्षत्रमण्डले ॥ १७० ॥ ( युग्मम्) प्रसाददानं भगवान् कृतवांस्तेन तौ सुतौ । भाविनौ भगवत्तुल्यौ प्रान्ते कान्ते ! न संशयः ॥ १७१ ॥ श्रुत्वेत्यानन्दसन्दर्भं गता गर्भं बभार सा । रत्नगर्भेव सद्रत्नं 'द्योरनं द्यौरिवाथवा ॥ १७२ ॥ राज्ञा क्रमात्पूर्यमाणै रम्यैर्धम्यैः स दोहदैः । ववृधे सद्रसैर्मेरुक्ष्माऽन्तः कल्पद्रुकन्दवत् ॥१७३॥ दिने शुभे शुभे लग्ने लग्नांशेऽपि शुभेऽन्यदा । प्राचीव पार्वणं चन्द्रं सा प्रासूत सुतोत्तमम् ॥१७४॥ पट्टराज्ञ्यास्तनूजत्वात्तस्य जन्ममहोत्सवः । व्यधाय सर्वातिशायी राज्ञा राज्ञामियं स्थितिः ॥ १७५ ।। ततस्तृतीये दिवसे दिवसेशनिशेशयोः । नरेशः कारयामास स्वसूनोर्दर्शनोत्सवम् ॥१७६॥ षष्ठे च दिवसे षष्ठीजागरं सागरं श्रियाम् । युक्तं प्रोल्लासयामास राजा स्फूर्जन्महः श्रिया ॥ १७७॥ १. अंकुरित । २. जगत्पतिः । ३. देवस्य । ४. सूर्यम् । ५. सर्वातिशयीत्यपि पाठः । चचचच श्राद्धविधि प्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy