________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
उचितां दयितां तां च बाला चन्द्रकलामिव । देव्याः पट्टे भालपट्टे महेशः स न्यवीविशत् ॥१५६॥ धर्म एवात्मजाद्याप्तौ जयाप्ताविव पार्थिवः । हेतुर्मुख्यः सहायो स्यान्मन्त्राद्यपि तु पत्तिवत् ॥१५७॥ इत्यन्येधुर्मुनिदत्तमन्त्रः पुत्रकृतेऽमुना । जेपे व्यपेतकम्पेन क्षितिपेन यथाविधि ॥१५८॥ सर्वासामथ राजीनामेकैकोऽजनि नन्दनः । निमित्तानां हि संयोगे भवेन्नैमित्तिकोद्भवः ॥१५९॥ राज्ञो मान्यापि दाक्षिण्यात्पुत्रं चन्द्रावती पुनः । प्राक्चिन्तितपतिद्रोहपातकादेव नाप्नुषी ॥१६०॥ सुषुप्तया तदा रात्रौ राज्या कमलमालया । दिव्योपलम्भवल्लेभे स्वप्नो राज्ञे न्यवेदि च ॥१६१॥ प्राणेशाऽद्य निशाशेषे सुप्तजागरया मया । तत्राश्रमस्थिते चैत्ये प्रणेमे प्रथमो जिनः ॥१६२॥ तदा च सप्रसादेन प्रभुणाऽहमभाषि च । भद्रे ! कीरं गृहाणैनं हंसं दास्ये च तेऽन्यदा ॥१६३॥ इत्यादिशंस्तीर्थकरः करे कीरवरं मम । अर्पयामास सर्वाङ्गसुभगं दिव्यवस्तुवत् ॥१६४॥ तेन प्रभोः प्रसादेन प्राप्तैश्वर्येव सर्वतः । प्रोच्चैः प्रमुमुदे तुल्यक्षणं प्रबुबुधेऽप्यहम् ॥१६५॥ अचिन्तितोपलब्धस्य स्वप्नस्यास्य तरोरिव । का कान्त ! नः फलप्राप्तिसंपत् संपत्स्यतेतराम् ॥१६६॥