________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
प्रस्फूर्जत्तूर्यनिर्घोषैदिक्षु 'सांराविणं क्षणम् । प्रथयन्नथ पृथ्वीशः प्रतस्थे स्वपुरं प्रति ॥१४५॥ आयान्तं तं तथोद्वीक्ष्य सपक्षमिव 'तक्षकम् । बिलाद् दूरस्थोन्दुरवद् व्यद्रवच्चन्द्रशेखरः ॥१४६॥ प्रत्युत्पन्नमतिः सोऽथ तदात्वोत्पन्नया धिया । भट्टै किञ्चिन्निसृष्टार्थ व्यसृष्ट नृपति प्रति ॥१४७॥ आगत्याचष्ट भट्टोऽपि हे भट्टारक ! नः प्रभुः । देवपादान् प्रसादार्थं विज्ञाविज्ञापयत्यदः ॥१४८॥ त्वां धूर्त्तच्छलितमिव त्यक्त्वा राज्यं क्वचिद्गतम् । ज्ञात्वा त्वत्पुररक्षार्थमुपस्थितोऽस्मि सौस्थ्यकृत् ॥१४९॥ अजानानै टैस्तावत्तावकीनैरुदायुधैः । सन्नद्धर्योद्धमारेभे विद्विषेव मया समम् ॥१५०॥ प्रहारानप्यहं सेहे रक्षन् द्विड्भ्यस्तु ते पुरम् । स हि किं सेवकः स्वामिकार्येऽप्येकमना न यः ॥१५१॥ पुत्रः पितुर्गुरोः शिष्यः स्वामिनोऽपि च सेवकः । पत्नी पत्युः पुनः कार्ये युक्तं प्राणांस्तृणीयति ॥१५२॥ श्रुत्वेति सत्यासत्यत्वे सन्दिहानोऽपि किञ्चन । तत्सत्यमेव दाक्षिण्यादिना भूमानमन्यत ॥१५३॥ बह्वमन्यत 'चाहायाभ्यायातं चन्द्रशेखरम् । दाक्ष्यदाक्षिण्यगाम्भीर्यधुर्यता नृपतेरहो ॥१५४॥ ततः श्रियेव श्रीकान्तः समं कमलमालया । प्रविवेश विशामीशः स्वपुरं परमोत्सवैः ॥१५५॥
१. साम्राविणं इति मुद्रितम् । २. नागम् । ३. तात्कालिकोत्पन्नया । ४. कथनार्थम् । ५. त्वरितम् ।