________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
यतः-इयमुच्चधियामलौकिकी महती क्वापि कठोरचित्तता । उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारभीरवः ॥१३४॥ ईदृग्ज्ञाननिधिनित्यं यदि स्यात्सन्निधिस्थितः । तर्हि किं विषमं ज्ञानं ह्यशेषं सुप्रतिक्रियम् ॥१३५॥ ईदृक् सहाययोगो वा न प्रायः प्राप्यते क्वचित् । जातु प्राप्तोऽपि न चिरं स्थिर: स्यान्निःस्ववित्तवत् ॥१३६॥ किं च कोऽयं शुको ज्ञानी कथं मे वत्सलः कुतः । कुत आगादगात् क्वाऽस्या वृक्षाद् दूष्याद्यभूत्कथम् ॥१३७॥ 'वरूथिनी कथं चैषाऽत्रायातेत्यादिसंशयः । गुहान्तर्ध्वान्तवद् ध्वंस्यः केन तं दीपकं विना ॥१३८॥ क्षोणीभृदग्रणीरेवं व्यग्रः सेवाविधायिनाम् । धुर्यैः पर्यनुयुक्तः सन्तुक्तवान् व्यक्तमेव तत् ॥१३९॥ आदितः कीरचरितं त्वरितं तदुदीरितम् । श्रुत्वा सर्वेऽपि तेऽप्युच्चैविस्मयं स्मयमैयरुः ॥१४०॥ ऊचिरे चाचिरेणापि स ते सङ्गस्यते क्वचित् । हिताकाङ्क्षी हि यो यस्याऽनपेक्षी नैव तस्य सः ॥१४१॥ संशयोऽप्येष निःशेषः सुपेषः शुष्कपर्णवत् । ज्ञानिपृच्छाप्रयोगेण ज्ञानिनां किमगोचरः ॥१४२॥ एतां चिन्तां ततस्त्यक्त्वा पवित्रय निजं पुरम् । मोरवत्पौरलोकोऽपि मोदतां देवदर्शनात् ॥१४३॥ तेषामुक्तमिदं युक्तममन्यत महीपतिः । उक्तं कृतं च नो कस्य सम्मतं समयोचितम् ॥१४४॥
१. सेना । २. संशयं । ३. मोरपक्षे तु मेघदर्शनात् ।