________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
येनाहमपि हा निन्ये दैन्यं सैन्यं रिपोरिदम् । ध्रुवं वधायाऽधाविष्ट विज्ञायाऽऽयातमत्र माम् ॥१२२॥ रक्षामि कथमेकाकी कान्तामेतामथो कथम् । युद्धे चेत्यादि किङ्कृत्यजडो यावद्भवेन्नृपः ॥१२३॥ तावज्जीव जय स्वामिन्नादिश स्वकसेवकान् । दिष्ट्याद्य देव ! दृष्टोऽसि हस्तभ्रष्टो निधिर्यथा ॥१२४॥ संभावय स्निग्धदृशा सेवकान् बालकानिव । इत्यादिवादिनी सेनां स्वामेवेक्ष्य विसिष्मिये ॥१२५।। हृष्टश्च पृष्टवान् सैन्यान् कथमत्राऽऽगताः स्थ भोः । तेऽप्यूचुः स्वमिहायातमेवावैक्षिष्महि प्रभो ! ॥१२६॥ न विद्मस्तु कथं केनाप्यानायिष्महि रंहसा । देव ! दिव्यानुभावोऽयं कोऽप्यभूद् भाग्ययोगतः ॥१२७॥ एतद् व्यतिकरादुच्चैविश्वविस्मयदायिनः । चमच्चेक्रियमाणः क्षमाशक्रस्तर्कमिति व्यधात् ॥१२८॥ देवस्येवाविसंवादा कापि कीरस्य गीरहो । सम्मान्यस्तदयं नैकप्रकारैरुपकारकृत् ॥१२९॥ कथं प्रत्युपकुर्वेऽस्मै स्पृहयालुरयं तु किम् । न चानृणी स्यां प्रागस्योपकृतोऽपि बहूपकृत् ॥१३०॥ यदुक्तम्-प्रत्युपकुर्वन् बह्वपि न भवति पूर्वोपकारिणस्तुल्यः । एकोऽनुकरोति कृतं निष्कारणमेव कुरुतेऽन्यः ॥१३१॥ इति प्रीत्या शुकं प्रत्यालोकते यावता नृपः । तावद् बुधमिव प्रातर्नष्टं नैक्षिष्ट तं क्वचित् ॥१३२॥ अचिन्तयच्च नियतं दूरतः क्वाऽप्ययं ययौ । भीत्यैव प्रत्युपकृतरुपकृत्यैव सत्तमः ॥१३३॥