________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
दोषः को वा तस्य शून्यं राज्यं को न जिघृक्षति । अरक्षक क्षेत्रमपि ग्रस्यते शूकरैर्न किम् ॥११३॥ धिर धिग् मामेव राभस्यकारिणं पारवश्यतः । अविवेकः कार्यविधावुद्रेकः सकलापदाम् ॥११४॥ अविमृश्य कृतं न्यस्तं विश्वस्तं दत्तमादृतम् । उक्तं मुक्तं च भुक्तं च प्रायोऽनुशय कृन्नृणाम् ॥११५॥ उक्तञ्चसगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥११६।। इत्थं नृपं सानुशयं भ्रष्टराज्याशयं शुकः । सस्मयं स्माह नृश्रेष्ठानुशयिष्ठाः स्म मा मुधा ॥११७॥ मदुक्ते विहिते हन्त भवेत्कथमिवाशुभम् । प्रयोगे विज्ञवैद्योक्ते व्याधिः किं बाधते क्वचित् ? ॥११८॥ मा ज्ञासिष्ठा गतं राज्यं मुधा मे वसुधापते ! । त्वमद्यापि चिरं राज्यं प्राज्यं भोक्ष्यसि सौख्यभाक् ॥११९॥ तस्य नैमित्तिकस्येव तेन वाक्येन भूपतिः । स्वराज्यप्राप्तये जातप्रत्याशो यावताऽभवत् ॥१२०॥ तावद् दावमिवाद्राक्षीदातुरं चातुरङ्गिकम् । सैन्यं सन्नद्धमागच्छदध्यासीच्च सभीनूपः ॥१२१॥
१. आधिक्यम् । २. पश्चात्तापकृत् ।