________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAA
सान्तर्दुष्टा मुखे मिष्टा गोमुखव्याघ्ररूपिणी । वारीणामिव नारीणां प्रायेण विषमा गतिः ॥१०२॥ त्वां विरक्तमिव त्यक्तराज्यं दूरगतं क्वचित् । विचिन्त्य लब्धछलया शाकिन्येव तया रयात् ॥१०३॥ अज्ञाप्यत निजभ्रातुस्त्वद्राज्यग्रहणक्षणः । अबलानां स्वेष्टसिद्धयै छलमेवातुलं बलम् ॥१०४॥ युग्मम् । चतुरङ्गबलोपेतस्ततो द्राक् चन्द्रशेखरः । त्वद्राज्यग्रहणायाऽऽगात्कस्त्यजेद्राज्यमागतम् ॥१०५॥ मध्यस्थैः सुभटैस्तूर्णं त्वापुरं दत्तगोपुरम् । भोगेनेव निधि भोगी चम्वाऽसौ पर्यवेष्टयत् ॥१०६॥ तवोद्भटाश्च सुभटाः पुरान्तः परितः स्थिताः । युध्यमानाः स्फुरद्धीराभिमानाः संति संप्रति ॥१०७॥ प्रत्यर्थिविजयस्तैस्तु कथं नि थमानिभिः । लौकिकैरप्यभिहितं हतं सैन्यमनायकम् ॥१०८॥ हन्त गन्तव्यमावाभ्यामेवं सति कथं पुरे । इति हेतोरहं राजन्निह तस्थौ सुदुःखहृद् ॥१०९॥ इति व्यतिकरात्कीरोदितादंतर्भिदः श्रुतात् । जातमार्ग इव प्राप संतापः क्षमापतेर्मनः ॥११०॥ ततः क्षितिपतिश्चित्ते चिन्तयाञ्चकृवानिति । धिगहो दुश्चरित्रायाः स्त्रिया हृदयदुष्टताम् ॥१११॥ तस्याऽपि साहसमहो अहो निश्शङ्कचित्तता । स्वामिराज्येऽपि तृष्णाऽहो अहो दुर्नयनिष्ठता ॥११२॥
१. वेगात् ।