________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAAA
इत्युक्त्वा स गतस्त्वं चागतस्तत इमां मुदा । तुभ्यं देयमिव प्रादां नान्यज्जानामि किञ्चन ॥१०॥ इत्युदित्वा मुनौ मौनं नृपे चिन्तां च चकृषि । समयज्ञ इवोपेत्य स एवाशु शुको जगौ ॥११॥ आगच्छाऽऽगच्छ भो भूप ! पन्थानं दर्शयामि ते । अहं विहङ्गमात्रोऽपि नोपेक्षे स्वाश्रितं जनम् ॥१२॥ क्षुद्रोऽपि किल नोपेक्ष्यः स्वाश्रितः किं पुनर्महान् । शशाङ्क स्वाङ्कतः क्वापि मुञ्चति किं शशं शिशुम् ॥१३॥ व्यस्मार्षीर्मामकस्मात्त्वमार्यधुर्योऽप्यनार्यवत् । विस्मरेयमहं तु त्वां क्षुद्रोऽप्यक्षुद्रवत्कथम् ॥१४॥ ततश्चमत्कृतः पृथ्वीपतिर्यतिपतिं द्रुतम् । आपृच्छ्याऽऽरुह्य वाजीन्द्रं सप्रियः शुकमन्वगात् ॥१५॥ एवमागच्छतस्तस्योत्सुकस्य शुकपृष्ठतः । क्षितिप्रतिष्ठितपुरं किंचिदृग्गोचरेञ्चरत् ॥१६॥ तावत्कीरः स्थिरस्तस्थावारुह्येकं महीरुहम् । भूकान्तः शङ्कितस्वान्तः सोपरोधं तमभ्यधात् ॥१७॥ पुरः पुरस्य प्रासादवप्राद्यं यद्यपीक्ष्यते । तथापि हि पुरं दूरे किमस्थाः कीर ! रुष्टवत् ॥१८॥ हुंकृत्य विहगः प्राह महदत्रास्ति कारणम् ! । प्रेक्षावतां प्रवृत्तिर्हि नैव निर्हेतुका क्वचित् ॥१९॥ किं तदित्युदिते तेन संभ्रान्तेन महीभुजा । व्याजहार कीरराजः शृणु राजन् ! यथा ब्रुवे ॥१००॥ चन्द्रपुर्या अधीशस्य चन्द्रशेखरभूभुजः । स्वसा चन्द्रवतीत्यस्ति वल्लभा वल्लभा तव ॥१०१॥