________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AALAAAAAAAAAAAAAA
सर्वेऽपि तद्वीक्ष्य चमच्चेक्रियाञ्चक्रिरेतराम् । निश्चिक्यिरे च कन्याया भाग्यवत्तामनुत्तराम् ॥७९॥ पतेत्फलादि फलदाज्जलादि जलदादिव । न तु दूष्याद्यहो पुण्यप्रागल्भ्ये किमु वाद्भुतम् ॥८॥ यतः-पुण्यैः संभाव्यते पुंसामसंभाव्यमपि क्षितौ । तेरुर्मेरुसमाः शैला: किं न रामस्य वारिधौ ॥८१॥ तेन प्रहर्षिणा क्षोणिपालः सह महर्षिणा । दत्तचित्तप्रसादं तं प्रासादं सप्रियोऽप्यगात् ॥८२॥ पुनः क्षिप्रं प्रभो ! भूयाद्दर्शनं तव पावनम् । स्थिरीभूयाश्च मच्चित्ते समुत्कीर्ण इवाश्मनि ॥८३॥ उक्त्वेत्याद्यजिनं तत्र स प्रणनम्य सप्रियः । प्राप्तो बहिर्जिनगृहान्मार्ग पप्रच्छ तापसम् ॥४४॥ तापसोऽप्याह नैवाहं वेद्मि मार्गाद्यथो नृपः । प्राह तर्हि कथं नाम मन्नामादि विवेदिथ ॥४५॥ ऋषिरेष बभाषेऽथ शृणु भो भूपतेऽन्यदा । मुदैनां चारुतारुण्यां कन्यां वीक्ष्येत्यचिन्तयम् ॥८६॥ अनुरूपो वरः कोऽस्या भविता तावता शुकः । सहकारस्थितोऽवोचच्चिन्तां मा भो कृथा वृथा ॥८७॥ ऋतुध्वजमहाराजाङ्गजं नाम्ना मृगध्वजम् । राजानमानयन्नस्म्यद्यैवास्मिन् देववेश्मनि ॥८८॥ तमेव विश्वप्रवरं वरं कन्येयमर्हति । कल्पवल्लीव कल्पद्रं माऽर्थेऽस्मिन् संशयं कृथाः ॥८९॥
१. त्वरितम् ।