________________
प्रथमः
प्रकाशः
१४
जाते विवाहे स्माऽऽहेमं महर्षि स महीशिता । राज्यं शून्यं विमुच्याऽहमिहायातोऽस्मि सत्वरम् ॥६८॥ सज्जिकां कारयध्वं तच्चलितुं तापसोऽप्यवक् । दिक्पटानामिवास्माकं भवेत्का नाम सज्जिका ॥६९॥ किंतु दिव्यं भवद्वेषं शौचवेषं च वाल्कलम् । दर्शं दर्शं दधात्येषा खेदमेदस्वलात्मताम् ॥७०॥ किञ्च सेचनमेवैषा वृक्षाणां कृतपूर्विणी । रीतिं तपस्विनामेव सर्वदा दृष्टपूर्विणी ॥ ७१ ॥
अस्या आजन्ममुग्धायाः स्निग्धायास्त्वयि निर्भरम् । मा भूत्कापि सपत्नीभ्यः पराभूतिस्ततः क्वचित् ॥७२॥ नृपोऽप्याह परा भूतिरेवैतस्या विधास्यते । सर्वाङ्गीणाऽपि यौष्माकी न चोक्तिः खण्डयिष्यते ॥७३॥ छेकच्छेकोक्तितः प्रीतिं तापसाय विधाय सः । तापसीप्रभृतिप्रीत्यै स्फुटोक्त्येत्युक्तवान् पुनः ॥७४॥ सर्वान् स्वस्थानमाप्तोऽस्याः पूरयिष्ये मनोरथान् । कौतस्कुतमिदानीं तु वेषमात्राद्यपीह भोः ॥ ७५ ॥ ऋषिर्विषीदंस्त्ववदत्पुत्र्या वेषोऽपि धिङ् मया । निष्किञ्चनेन नो कर्त्तुं शक्यते नित्यनिःस्वग्वत् ॥७६॥ तस्यैवं वदतः पेतुर्नेत्रतोऽश्रूणि दुःखतः । यावता तावता प्रत्यासन्नतः सहकारतः ॥७७॥ 'अदूष्यदूष्याभरणश्रेणयस्तत्र तत्क्षणात् । स्पर्धयेवापतन् वारिधारा "धाराधरादिव ॥७८॥ युग्मम् ॥
१. आह स्मेत्यर्थः । २. उत्कृष्टा समृद्धिः । ३. दरिद्रवत् । ४. निर्मल० । ५. मेघादिव ।
श्राद्धविधिप्रकरणम्