________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAA
कोऽयं महर्षिः कं हेतुं मामाह्वयति साग्रहम् । मामकीनाभिधानादि जानाति कथमेष वा ॥५७॥ इत्युच्चैर्विस्मितमतिः क्षमापतिर्यतिना समम् । जगामाश्रममार्या हि प्रार्थनाभङ्गभीरवः ॥५८॥ महस्विनस्तस्य पुनः प्रतिपत्तिं तपस्विनः । महातपस्विनस्तेनुः सर्वां शश्वद्यशस्विनः ॥५९॥ भूपतिं प्रति स प्रीततमः प्राह 'महाऋषिः । अत्रागतेन भवता कृताऽस्माकं कृतार्थता ॥६०॥ अस्मत्कुलालङ्करणं कार्मणं विश्वचक्षुषाम् । अस्माकं जीवितस्यापि जीवितं जङ्गमं किल ॥६१॥ कन्या कमलमालेयं पुष्पमालेव दैवती । अर्हा तवैव तत्पाणौ कुरुष्व स्वीकुरुष्व नः ॥६२॥ युग्मम् ॥ इष्टं वैद्योपदिष्टं च तन्मन्वानोऽपि भूपतिः । प्रापद्यताऽऽग्रहेणैव सतां हि स्थितिरीदृशी ॥६३॥ ततश्च स मुदा प्रादात्तस्मै विस्मेरयौवनाम् । कन्यां स्वामचिरात्को वा चिरयेदिष्टकर्मणि ॥६४॥ वल्कलाकल्पयाऽप्युच्चैरनया पिप्रिये नृपः । युक्ता वा राजहंसस्य प्रीतिः कमलमालया ॥६५॥ सानन्दतापसीवृन्दस्फूर्जद्भवलमङ्गलम् । स्वयं विधाप्यमानार्हनिःशेषविधिबन्धुरम् ॥६६॥ नृपेण परिणाय्यैनां स तस्मै करमोचने । पुत्रार्थं प्रददे मन्त्रं देयं वाऽन्यन्मुनेः किमु ॥६७॥ युग्मम् ॥
१. योगीश्वरः । २. वशीकरणम् ।