________________
प्रथमः
प्रकाशः
१२
ततः कुतोऽपि सङ्केतात्प्राप्तः सोऽर्हन्निकेतनम् । जटाशाली वल्कवासाः 'कृत्तिवासा इवापरः ॥५२॥ सोऽपि श्री ऋषभं भक्त्याभिवन्द्याऽनिन्द्यविद्यहृद् । हृद्यानवद्यसद्यस्क गद्यैस्तुष्टाव तद्यथा ॥५३॥
जय ! त्रिजगदेकनाथ ! विश्वत्रयोपकृतिप्रथासमर्थ ! सदनन्तातिशयश्रीसनाथ ! जय श्रीनाभिभूपालविपुलकुलकमलसमुल्लासहंस ! त्रिभुवनजनस्तवनीय ! कमनीय! श्रीमरुदेवास्वामिनीकुक्षिसरोवरराजहंस ! जय त्रैलोक्याऽस्तोकलोकमनः कोकनि: शोकताकरणसहस्रकर ! अपरसर्वदैवतगर्वसर्वंकष ! निस्तुषनिस्सीमनिस्सममहिमकमलाविलासकमलाकर ! जय स्वरसभक्तिरसप्रसरप्रस्फुरदहमहमिकाप्रणमदमरनरनिकरशिरः कोटिसण्टङ्किमाणिक्यकोटीरकान्तिनीरलहरिप्रक्षालितपदकमल ! विध्वस्तसमस्तरागद्वेषादिदोषमल ! जय प्रास्तापारसंसारपारावारनिमज्जज्जन्तुसमुत्तारमहायानपात्रप्रवर ! श्रीसिद्धवधूवर ! अजर ! अमर! अचर! अदर ! अपर! अपरम्पर ! परमेश्वर ! परमयोगीश्वर ! श्रीयुगादिजिनेश्वर ! नमस्ते ।
स्तुत्वेति हारिहारीतगद्यरीत्या मुदा जिनम् । राजानं प्रति निर्व्याजं व्याजहार ऋषीश्वरः ॥५४॥ राजन् मृगध्वज ऋतुध्वजराजकुलध्वज ! । वत्सागच्छाश्रमे दिष्ट्याऽस्माकमाकस्मिकोऽतिथिः ॥ ५५ ॥ स्वोचितामातिथेयीं ते प्रथयामो यथा मुदा । भाग्यैरेवोपलभ्यन्तेऽतिथयो हि भवादृशाः ॥५६॥
१. महादेव: । २. प्रत्यग्र० । ३. सूर्यः । ४. चक्रवाक० ।
श्राद्धविधिप्रकरणम्