________________
पञ्चमः
प्रकाशः
श्राद्धविधि-IN इत्याद्यनुमान्याऽनुमानं कृत्वा । यत्परैदृष्टं तदालोचयति न त्वदृष्टम् । बादरमालोचयति न तु सूक्ष्म, तत्रावज्ञापरत्वात् । सूक्ष्म प्रकरणम् तृणग्रहणादिरूपमालोचयति, न तु बादरं सूक्ष्मालोचको हि कथं बादरं नालोचयेदिति ज्ञापनार्थम् । छन्नमव्यक्तस्वरम् । तथा
शब्दाकुलं यथा गुरुः सम्यग् नावगच्छति, यद्वाऽन्येऽपि यथा शृण्वन्ति तथा शब्दाकुलम् । आलोच्यं बहुजनान् श्रावयति । अव्यक्तस्थानवगतच्छेदग्रन्थरहस्यस्य गुरोरालोचयति । स्वकृतापराधसदृशसेविगुरोः खरंटनादिभियाऽऽलोचयति । एते दश दोषा आलोचकेन वर्जनीयाः । सम्यगालोचने गुणानाह
लहुआ ल्हाईजणणं, अप्पपरनिवत्ति अज्जवं सोही । दुक्करकरणं आणा निस्सल्लत्तं च सोहिगुणा ॥
यथा भारवाहिनो भारेऽपहृते लघुता तथा शल्योद्धार आलोचकस्यापि । ल्हादिजननं प्रमोदोत्पादः । आत्मपरयोर्दोषेभ्यो निवृत्तिरालोचनादाने हि स्वयं दोषनिवृत्तिः प्रतीता, तं दृष्ट्वाऽन्येऽप्यालोचनाभिमुखाः स्युरित्यन्येषामपि दोषेभ्यो निवृत्तिः । आर्जवं निर्मायता सम्यगालोचनात् । शोधिः शुद्धताऽतिचारमलापगमात् । दुष्करकरणं दुष्करकारिता यतो यत्प्रतिसेवनं तन्न दुष्करमनादिभवाभ्यस्तत्वात्, यत्पुनरालोचयति तदुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात् । निशीथचूर्णावप्यूचे
तन्न दुक्करं जं पडिसेविज्जइ तं दुक्कर जं सम्म आलोइज्जइत्ति । अत एवाभ्यन्तरतपोभेदरूपं सम्यगालोचनं, मासक्षपणादिभ्योऽपि दुष्करं लक्षणार्यादीनां तथा श्रवणात् । तथाहि
४५७