________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
इतोऽशीतितमचतुर्विंशतौ नृपस्य बहुपुत्रस्योपयाचितशतैर्जाता बहुमान्या पुत्री स्वयंवरमंडपे वृतवरा दुर्दैवाच्चतुरिकान्तम॒त भर्तृका सुशीला सतीषु प्राप्तरेखा सुश्राद्धधर्मनिष्ठाऽन्यदाऽन्त्यार्हता दीक्षिता लक्षणार्या कदाचिच्चटकयुग्मरतं दृष्ट्वा दध्यौ'अर्हता किमेतन्नानुमतम्, अवेदोऽसौ वा न वेत्ति सवेददुःखमित्यादि', क्षणान्तरे जातपश्चात्तापा कथमालोचयिष्यामीति प्रोद्भूतत्रपाऽपि सशल्यत्वे सर्वथा न शुद्धिरित्यालोचयितुं स्वं प्रोत्साह्य यावद्याति, तावदचिन्तिते कण्टके भग्नेऽपशकुनेन क्षुब्धा, य - ईदृग् दुर्ध्यायति तस्य किं प्रायश्चित्तमिति परव्यपदेशेनाऽऽलोचितवती, न तु साक्षाल्लज्जामहत्वहान्याद्याशङ्कयैव । ततस्तत्प्रायश्चित्तपदे पञ्चाशद्वर्षी तीव्र तपस्तेपे । उक्तं च
छट्टमदसमदुवावलसेहिं निव्विगइएहिं दसवरिसे । तह वणपएहिं दुन्निय, दो चेव य भुज्जिएहिं च ॥ मासखमणेहिं सोलस, वीसं वासाइं अंबिलेहिं च । लक्खण अज्जा एवं, कुणइ तवं वरिसपन्नासं ॥ आवस्सयमाईअं, किरिअकलावं अमुच्चमाणीए । अद्दीणमाणसाए, एस तवो तीइ अणुचिन्नो ॥
एवं दुस्तपस्तपस्तपनेऽपि सा न शुद्धा, प्रत्युताऽऽर्तध्यानान्मृता दास्याद्यसङ्ख्यभवेष्वनुभूततत्तत्तीव्रतरदुःखा श्रीपद्मनाभतीर्थकृत्तीर्थे सेत्स्यति । तदुक्तं
ससल्लो जइवि कट्टगं घोरं वीरं तवं चरे । दिव्वं वाससहस्सं तु, तओ तं तस्स निष्फलं ॥
४५८