________________
श्राद्धविधि
प्रकरणम्
कम्बलप्रोञ्छनसूत्रोर्णा-पात्रोदङ्ककतुम्बक - दण्डक-दण्डिका-सूचीकण्टक-कर्षण - कागद-कुंपक- लेखनीकलापक-पुस्तादिकं श्रीगुरुभ्यो दत्ते । यद्दिनकृत्यसूत्रम्
वत्थं पत्तं च पुत्थं च, कंबलं पायपुंछणं । दंडं संधारयं सिज्जं, अन्नं जं किंचि सुज्झई ॥
‘पुत्थंति' पुस्तकं पञ्चविधमप्यापवादिकम् । 'अन्नंति' अन्यदप्यौघिकौपग्रहिकभेदभिन्नं मुखवस्त्रिकादण्डप्रोञ्छनकादिकं यच्छुध्यति संयमोपकारे वर्त्तते । तदुक्तं
जं वट्टइ उवयारे, उवगरणं तंसि होइ उवगरणं । अइरेगं अहिगरणं, अजओ अजयं परिहरंतो || ‘परिहरंतो' इति आसेवमानः 'परिहारो परिभोगो' इति वचनात् । ततोऽग्रतश्च यत्परिभुञ्जानो भवतीत्यर्थ इति प्रवचनसारोद्धारवृत्तौ । एवं च प्रातिहारिकपीठफलकपट्टिकाद्यपि संयमोपकारि सर्वं साधुभ्यः श्रद्धया देयम् । सूच्यादीनामुपकरणत्वं श्रीकल्पेऽप्युक्तं यथा
असणाई वत्थाई सूआइ चउक्कलगा तिन्नि । अशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि द्वादश । यथा अशनं पानं | स्वादिमं स्वादिमं वस्त्रं पात्रं कंबलं पादप्रोञ्छनं सूची पिप्पलको नखच्छेदनकं कर्णशोधनकं चेति । एवं श्राद्धश्राविकासङ्घमपि | यथाशक्ति सभक्ति परिधापनादिना सत्करोति, यथोचितं च देवगुर्वादिगुणगायकान् याचकादीनपि ।
पञ्चमः
प्रकाशः
४३७