________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
सङ्घार्चा च त्रिधा, उत्कृष्टा मध्यमा जघन्या च । सर्वदर्शनसर्वसङ्घपरिधापने उत्कृष्टा । सूत्रमात्रादिना जघन्या । शेषा | मध्यमा। तत्राधिकं व्ययितुमशक्तोऽपि गुरुभ्यः सूत्रमुखवस्त्रिकादिकं द्वित्रिश्राद्ध श्राद्धीभ्यः पूगादि च दत्वा प्रतिवर्ष सङ्घार्चाकृत्यं भक्त्या सत्यापयति । नि:स्वस्य च तावदपि महाफलम् । यतः
संपत्तौ नियमः शक्तौ सहनं यौवने व्रतम् । दारिद्रये दानमप्यल्पं, महालाभाय जायते ॥१॥ मन्त्रिवस्तुपालादीनां तु प्रतिचातुर्मासकं सर्वगच्छसङ्घार्चाविधानादि श्रूयते भूयस्तरवित्तव्ययादि च । ढिल्ल्यां साधुजगसीसुतसाधुमहणसिंहेन श्रीतपागच्छाधिपपूज्यश्रीदेवसुन्दरसूरिभक्तेनैकस्यामेव सङ्घार्चायां सर्वदर्शनसङ्घपरिधापनादिना चतुरशीतिसहस्रटङ्ककव्ययः कृतः । द्वितीयस्मिन्नेव दिने प्राप्तानां प्राक् तदाकारितश्रीगुरुप्रहितपण्डितदेवमङ्गलगणीनां प्रवेशे सङ्क्षिप्तसङ्घार्चायां पुनः षट्पञ्चाशट्टङ्ककसहस्री व्ययितेत्यादि श्रूयते । इति सङ्घार्चाविधिः । (२) साधर्मिकाणां वात्सल्यमपि सर्वेषां कियतां वा यथाशक्ति कार्यम् । समानधर्माणो हि प्रायेण दुष्प्रापाः । यदवादिष्म
सर्वैः सर्वे मिथः सर्वसम्बन्धाः लब्धपूर्विणः । साधर्मिकादिसम्बन्धलब्धारस्तु मिताः क्वचित् ॥ तेषां च सङ्गमो हि महते पुण्याय किं पुनस्तदनुरूपा प्रतिपत्तिः ? यतः
एगत्थ सव्वधम्मा, साहम्मियवच्छलं तु एगत्थ । बुद्धितुलाए तुलिया, दो वि अ तुल्लाई भणिआई ॥
४३८