________________
श्राद्धविधि
चतुर्थः
प्रकरणम्
प्रकाश:
कथं स्वपिति देवेशः? पद्मोद्भव ! महार्णवे । सुप्ते च कानि वानि ? वर्जितेषु च किं फलम् ? ॥ नायं स्वपिति देवेशो, न देवः प्रतिबुध्यते । उपचारो हरेरेवं, क्रियते जलदागमे ॥ योगस्थे च हृषीकेशे, यद्वयं तन्निशामय । प्रवासं नैत्र कुर्वीत, मृत्तिकां नैव खानयेत् ॥ वृन्ताकान् राजमाषांश्च, वल्लकुलत्थांश्च तूवरीम् । कलिङ्गानि त्यजेद्यस्तु, मूलकं तन्दुलीयकम् ॥ एकान्नेन महीपाल ! चातुर्मास्यं निषेवते । चतुर्भुजो नरो भूत्वा, प्रयाति परमं पदम् ॥ नक्तं न भोजयेद्यस्तु, चातुर्मास्ये विशेषतः । सर्वकामानवाप्नोति, इह लोके परत्र च ॥ यस्तु सुप्ते हृषीकेशे, मद्यमांसानि वर्जयेत् । मासे मासेऽश्वमेधेन, स यजेच्च शतं समाः ॥ इत्यादि । तथा मार्कण्डेय उवाचतैलाभ्यङ्गं नरो यस्तु, न करोति नराधिप ! । बहुपुत्रधनैर्युक्तो, रोगहीनस्तु जायते ॥ पुष्पादिभोगसन्त्यागात् स्वर्गलोके महीयते । कट्वम्लतिक्तमधुरकषायक्षारजान् रसान् ॥ यो वर्जयेत् स वैरूप्यं, दौर्भाग्यं नाप्नुयात्क्वचित् । ताम्बूलवर्जनाद्राजन् ! भोगी लावण्यमाप्नुयात् ॥ फलपत्रादिशाकं च, त्यक्त्वा पुत्रधनान्वितः । मधुस्वरो भवेद्राजन्नरो वै गुडवर्जनात् ॥
AAAAAAAAAAAAAAAAAAAAAAAAA
४३४