________________
श्राद्धविधि
चतुर्थः
प्रकरणम्
प्रकाश:
किं ममात्र स्थित्या ? यामि देशान्तरम् । यतः
निग्गंतूण गिहाओ, जो न निअइ पुहइमंडलमसेसं । अच्छेरयसयरम्मं, सो पुरिसो कूवमंडुक्को ॥
नज्जंति चित्तभासा, तह य विचित्ता उ देसनीईओ । अच्चब्भुआई बहुसो, दीसंति महिं भमंतेहिं ॥ ततो रह: खड्गहस्तो निशि निर्गतोऽसौ पृथ्व्यां स्वैरभ्रमी कदाचिदरण्ये मध्याह्ने क्षुत्तृडाक्रान्तो यावज्जज्ञे, तावदेकेन सर्वाङ्गालङ्कृतदिव्यनरेण सस्नेहमालाप्य तस्मै रत्नमेकं सर्वोपद्रवचारकं द्वितीयं च सर्वेष्टसाधकं दत्तम् । कोऽसीति कुमारेण पृष्टे तेनोक्तम्,-'स्वपुरे प्राप्ते मुनिगिरा मच्चरित्रं ज्ञास्यसि । ततः स तद्रत्नमहिम्ना सर्वत्र स्वैरं विलसन् कुसुमपुरेशदेवशर्मनरेशस्याक्ष्णोर्व्यर्था तीव्रां पटहोद्घोषाज्ज्ञात्वा रत्नमहिम्नाऽपजहे । तुष्टो राजा राज्यं पुण्यश्रियं पुत्री च दत्त्वा निष्क्रान्तः । पिताऽप्यथ स्वपट्टे तं न्यस्य निष्क्रान्तः । एवं राज्यद्वयं स भुङ्के । अन्यदा त्रिज्ञानी देवशर्मराजर्षिस्तस्य प्राग्भवं प्राह । क्षेमापुर्यां श्रेष्ठिसुव्रतो गुरुपार्श्वे यथाशक्ति चतुर्मासीनियमान् स्वीचक्रे । तभृत्यस्तु रात्र्यशनं मधुमद्यमांसाशनं च प्रतिवर्ष वर्षाचतुर्मास्यां नियमितवान् । स मृत्वा त्वं जातः । सुव्रतस्तु महद्धिसुरः । तेन प्राच्यस्नेहात्ते रत्नद्वयं दत्तम् । ततो जाति स्मृत्वा नानानियमान् प्रपाल्य नृपः स्वः प्राप्तो विदेहेषु च्युत्वा सेत्स्यति । इति चतुर्मासीनियमे कथा || लोकेऽप्युक्तमिदम्
यथा वशिष्ठ उवाच
४३३