________________
श्राद्धविधि
तृतीयः प्रकाश:
प्रकरणम्
एवं स्वल्पादिनैरनेककनककोटीश्वरो जज्ञे ।
पोषकाः स्वकुलस्यैते, काककायस्थकुर्कुटाः । स्वकुलं घ्नन्ति चत्वारो, वणिग् श्वानो गजा द्विजाः ॥ इति
मात्सर्यादनायैरन्यैर्वणिग्भिरनेककनककोटिनिधिर्लब्ध इति पैशुन्ये कृते राज्ञा पृष्टः प्राह-मया स्थूलमृषावादादत्तादानादि गुरुपार्श्वे नियमितम् । ततो धर्मधूर्तोऽयमिति वणिग्गिरा राज्ञा स्वं लात्वा सपुत्रोऽप्यसौ स्वसौधे स्थापितो दध्यौ । अद्य पञ्चमीपर्वसद्भावादवश्यं मम कथमपि लाभ एव भावीति । प्रातर्नृपः सर्वं स्वकोशं रिक्तं श्रेष्ठिगृहं च सर्वतोऽपि मणिस्वर्णादिभिर्भूतं दृष्ट्वा विस्मितो विषण्णश्च तं क्षमयति स्म, प्रश्नयति स्म च-'श्रेष्ठिन् ! कथमिदं धनं त्वद्गृहे गतं ?' सोऽप्याह, 'स्वामिन्नहमपि न जाने । परं पर्वणि पुण्यमहिम्ना मे लाभ एव भवतीत्यादि' सम्यक् स्वरूपोक्तौ पर्वमहिमश्रुत्या जातजातिस्मृतिः क्षितिपतिरपि षट्पर्वीपालनं यावज्जीवं स्वीचक्रे । वर्धापयाञ्चक्रे च तदैव कोशाध्यक्षेण कोशः सर्वे संप्रत्येव पूर्यन्ते स्म प्रावृषेण्यप्रवाहपूरेणेव पद्माकरा इति । ततोऽतिविस्मितमुदिते मादयिते चलत्कुण्डलाद्याभरणभासुर: सुरः स्फुटीभूय भाषते स्म- 'भो भूपते ! उपलक्षयसि मां प्राग्भवमित्रं श्रेष्ठिसुरं ? मया प्राग्वाग्बद्धतया त्वत्प्रतिबोधाय पर्वादिनैष्ठिकप्रष्ठश्रेष्ठिसान्निध्याय चैतद् व्यधायि, तस्माद्धर्मे मा क्वापि प्रमादी:, यामि अथो तैलिकहालिकनृपयोर्बोधाय'इत्युक्त्वा गतस्तयोर्युगपत् प्राग्भवं स्वप्नान्तरेऽदर्शयत् । ततस्तावपि जातजातिस्मृती सम्यक् श्राद्धधर्मं विशिष्य च षट्पर्वीमाराधयतः, त्रयोऽपि ते नृपाः श्रेष्ठिसुरगिरा स्वस्वदेशेऽमारिप्रवर्त्तनं, सर्वव्यसननिवर्त्तनं, स्थाने स्थाने नव्यचैत्यार्चायात्रासार्मिकवात्सल्यादिनिर्वर्त्तनं,
AAAAAAAAAAAAAAA
४२५