SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि तृतीयः प्रकाश: प्रकरणम् पर्वणोऽर्वाग् दिने पटहोद्घोषणापूर्वं सर्वपर्वसु सर्वजनेभ्यः सर्वाङ्गीणधर्मकर्मनिर्मापणं च तथा व्यधुर्यथैकच्छत्रीभूतश्रीजैनधर्ममहिम्ना सततमवहितश्रेष्ठिसुरसान्निध्येन तेषां देशेष्वीतिदुर्भिक्षस्वपरचक्रभीतिव्याध्यशिवदौस्थ्याधुपद्रवास्तीर्थकरविहारभूमाविव स्वप्नेऽपि नाभूवन् । धर्ममहिम्ना हि किन्नाम दुस्साधमपि न सुसाधम् ? एवं सुखधमैकमयीं राज्यश्रियं सुचिरं - परिभुज्य त्रयोऽपि सह प्रव्रज्य प्राज्यतपोभिर्दागेव केवलज्ञानमुपायं स्थाने स्थाने श्रेष्ठिदैवतवितन्यमाननि:समानमहिमानः प्रायो निजनिदर्शनोपदेशैरूामपि सर्वपर्वसु धर्मसाम्राज्यमुच्चैविस्तार्य नानाभव्यजनान् निस्तार्य निर्वृतिमियति स्म । श्रेष्ठिसुरोऽप्यच्युतात् च्युतः प्रौढनृपीभूय भूयः पर्वमहिमश्रुत्या जाति स्मृत्वा दीक्षां गृहीत्वा तथैव निर्वृतः । इति पर्वतिथौ कथा ॥ इत्येकादशगाथार्थः । ॥ इति श्रीतपागच्छधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरि-विरचितायां श्रीविधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्तौ पर्वकृत्यप्रकाशकस्तृतीयः प्रकाशः ॥ ४२६
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy