________________
श्राद्धविधिप्रकरणम्
तृतीयः प्रकाशः
नृपनरैर्युद्ग्राहितो राजापि रुष्ट आज्ञाभङ्गे प्रातः सकुटुम्बोऽपि स निग्रहिष्यते इति अवग, दैवान्निशि शूलव्यथया तथा व्यथितो यथा पुरेऽपि हाहाकारो जज्ञे । एवं दिनत्रयं गतम् । धर्मप्रभान्नियूंढपर्वनियमः सोऽपि प्रतिपदि धावितानि द्वितीयायां मागितात्यर्पितवान् ॥ एवं गाढविलोक्यमानबहुतैलार्थं चतुर्दश्यां घाणीवाहनादेशे तेन पर्वनियमदाढ्योक्तौ नृपकोपे तत्कालं परचक्रगमनससैन्यनृपसन्मुखगमनयुद्धतज्जयादिवैयग्रयेण । हालिकस्य त्वष्टमीमुहूर्ते नृपादिहलखेटनादेशे तथैव नृपकोपे तत्कालनिरन्तरवृष्ट्या सुखं पर्वनियमनिर्वाहोऽभूत् । एवमखण्डपर्वनियमपालनपुण्येन ते त्रयोऽपि क्रमान्मृताः षष्ठे स्वर्गे सुराश्चतुर्दशसागरायुषो बभूवुः । श्रेष्ठी तु द्वादशे, चतुर्णां मैत्री । 'त्वया प्राग्वद्वयं प्रतिबोध्या' इति च स्वच्यवनसमये त्रिभिः श्रेष्ठिसुरः स्वीकारितः । त्रयोऽपि ततश्च्युताः पृथक् पृथग् नृपकुलेऽवतीर्णा देशाधिपाः प्रौढनृपा धीरवीरहीराख्या जज्ञिरे । तत्र धीरपुरे एकस्य श्रेष्ठिनः पर्वसु सर्वदा सर्वत्र सर्वाङ्गीणो लाभः स्यादन्यदा तु हानिरपि । तेन ज्ञानी पृष्टः प्रोचे, 'त्वया प्राग् भवे दौस्थ्येऽपि नियमबद्धतया यथाशक्ति पर्वदिनाः सम्यक् पालिताः । अन्यदा तु क्षणिकत्वादियोगेऽप्यालस्यादिना प्रमद्वरोऽभूः पुण्यकार्ये । तेनात्र भवे तथा भवेत् । तदुक्तं
न तं चोरा विलुपंति, न तं अग्गी विणासए । न तं जूएवि हारिज्जा, जं धम्ममि पमत्तओ ॥ ततः स सकुटुम्बः पुण्यकृत्येषु नित्यमप्रमत्तः सर्वशक्त्या सर्वपर्वाण्याराधयति । व्यवहारशुद्ध्या वाणिज्याद्यपि स्वल्पस्वल्पतरारम्भं द्वितीयादिपर्वस्वेव विधत्ते न त्वन्यदा । ग्राहका अपि सर्वे विश्वस्तास्तस्यैव पार्वे व्यवहरन्ति न त्वन्येषाम् ।
४२४