________________
श्राद्धविधि- प्रकरणम्
तृतीयः प्रकाशः
दिग्गजकूर्मकुलाचलफणिपतिविधृताऽपि चलति वसुधेयम् । प्रतिपन्नममलमनसां, न चलति पुंसां युगान्तेऽपि ॥ ___ ततस्तुष्टोऽस्मीष्टं याचस्वेति तेनोक्तोऽपि ध्यानान्तरं न दधौ । ततस्तेनातितुष्टेनासङ्ख्यकोटिरै रत्नवृष्ट्यादिमहिमा तद्गृहे चक्रे। तन्महिम्नानेके जनाः पर्वपालने सादरा जज्ञिरे । विशिष्य च राज्ञः प्रसादचित्ता एको रजकस्तैलिक: कौटुंबिकश्च षट्पा - स्वस्वारंभर्जिनः, तांश्च श्रेष्ठी नव्यसाधर्मिकत्वेन पारणे सहभोजनपरिधापनयथाविलोक्यमाननिरर्गलद्रविणार्पणादिना भृशं सन्मानयति । यतः
न य तं करेइ माया, नेव पिआ नेव बंधुवग्गो अ । जं वच्छलं साहम्मिआण सुस्सावगो कुणइ ॥ तत्परिचयात् तेऽपि सम्यग्दृशो बभूवुः । यतःसुंदरजणसंसग्गी, सीलदरिदपि कुणइ सीलढुं । जह मेरुगिरिविलग्गं, तणंपि कणगत्तणमुवेइ ॥
अन्येषुः श्वः कौमुदीमहो भावी इत्यथैव धावनीयानीत्युक्त्वा चतुर्दश्यां राज्ञो राजीनां च वासांसि धावकस्य । धावनायार्पितानि नृपनरैः । तेनोक्तं पर्वसु मम सकुटुम्बस्य वस्त्रधावनाद्यारम्भे नियमोऽस्ति तैरुक्तं "नृपाज्ञायां को नियम: ? आज्ञाभङ्गे प्राणान्तिकोऽपि दण्डो भावी ।" ततः स्वजनैरन्यैश्च भृशं प्रेरितोऽपि श्रेष्ठिनाऽपि नृपदण्डे मा धर्माद्यपभ्राजनाहान्यादि भूदिति 'रायाभिओगेणं' इत्याकारादियुक्तिज्ञापनेऽपि दाढ्यं विना किं धर्मेणेति स धावक ईदृक्सङ्कटेऽपि धावनं नानुमेने ।।
४२३