________________
श्राद्धविधि
तृतीयः प्रकाश:
प्रकरणम्
छउमत्थो मूढमणो, कित्तिअमित्तं च संभइ जीवो । जं च न सुमरामि अहं, मिच्छामिदुक्कडं तस्स ॥ सामाइअपोसहसंठिअस्स जीवस्स जाइ जो कालो । सो सफलो बोधव्वो, सेसो संसारफलहेऊ ॥
तओ सामाइक विधि लिउं इच्चाइ भणइ । एवं दिवसपोसहपि । नवरं, जाव दिवसं पज्जुवासामित्ति भन्नइ । देवसिआइ पडिक्कमणे कए पारेउं कप्पइ । रत्तिपोसहपि एवं । नवरं-मज्झण्हाओ परओ जाव दिवसस्स अंतो मुहुत्तो ताव घिप्पइ । तहा दिवससेसं रत्तिं पज्जुवासामित्ति भन्नइ । पोसहपारणए साहुसंभवे निअमा अतिहिसंविभागवयं फासिअ पारेअव्वं । इति पौषधविधिः ॥
एवं पोषधादिना पर्वदिनमाराध्यम् । अत्र ज्ञातमित्थम्-धन्यपुरे धनेश्वरः श्रेष्ठी, धनश्रीः पत्नी, धनसारः सुतः । श्रेष्ठी परमार्हतः सहकुटुम्बः प्रतिपक्षं षट्पर्वी च, विशेषारम्भवर्जनादि ॥, प्रतिमासं षट्पूर्वी 'चाउद्दसट्ठमुट्ठिपुन्निमासिणीसु पडिपुण्णं पोसहं पालेमाणा' इति पञ्चमाङ्गे तुङ्गिकानगरीश्राद्धवर्णने प्रोक्तत्वात्,पोषधादिना यथाविधि पालयति । अन्यदाष्टमीपोषधे श्रेष्ठी निशि शून्यगृहे प्रतिमास्थः शक्रेण धर्मदायें प्रशंसितो मिथ्याक्सुरेण परीक्षितः । प्रथमं मित्ररूपेण स्वर्णकोटिनिधिग्रहणानुमत्यर्थमत्यर्थं पृष्टस्ततः पत्नीरूपेणालिङ्गनादिनाऽप्यत्यर्थं कर्थितः । ततो निशीथेऽपि प्रातस्त्यप्रभाकरोद्गमातपादिदर्शनपूर्वं पोषधपारणाद्यर्थं प्रियापुत्रादितत्तदुक्तिश्रावणादिभिरपि स्वाध्यायस्मरणानुसारेण निशीथं जानन्नभ्रान्तः । ततः पिशाचरूपेण कृत्योत्पाटनघातोच्छालनशिलास्फालनाब्धिमध्यक्षेपादिप्रतिकूलोपसर्गः प्राणान्तिकैरपि न क्षुब्धः । यतः
४२२