________________
श्राद्धविधि
तृतीयः प्रकाशः
प्रकरणम्
क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्यं लोकानुगैरिह ॥
अर्हतां जन्मादिपञ्चकल्याणकदिना अपि पर्वतिथित्वेन विज्ञेयाः, द्वित्र्यादिकल्याणकदिनाश्च विशिष्य । श्रूयते हि कृष्णमहाराजेन सर्वपर्वदिनान्याराधयितुमशक्तेन वर्षमध्ये स्वामिन्नुत्कृष्टं पर्वदिनमाराध्यं किन्नाम ? इति श्रीनेमिः पृष्टः प्राह, महाभाग ! मार्गशीर्षशुक्लैकादशी जिनेन्द्रपञ्चकल्याणकीपवित्रिता, अस्यां पञ्चपञ्चभरतैरावतक्षेत्रकल्याणकानां मीलने पञ्चाशत् कल्याणकानि स्युः । ततः कृष्णेन मौनपौषधोपवासादिना तद्दिनमाराद्धम् । ततः प्रभृति यथा राजा तथा प्रजा इत्येकादशी सर्वजनेष्वाराध्यतया प्रसिद्धि प्राप । पर्वतिथिपालनं च महाफलं शुभायुर्बन्धहेतुत्वादिना । यदागम:
भयवं ! बीअपमुहासु पंचसु तिहीसु विहिरं धम्माणुट्ठाणं किं फलं होइ ? गोयमा ! बहुफलं होइ । जम्हा एआसु तिहीसु पाएणं जीवो परभवाउअं समज्जिणइ, तम्हा तवोविहाणाइधम्माणुट्ठाणं कायव्वं । जम्हा सुहाउअं समज्जिणइत्ति।
आयुषि बद्धे तु दृढधर्माराधनेऽपि बद्धायुर्न टलति ! यथा श्रेणिकनृपस्य क्षायिकसम्यक्त्वसम्भवेऽपि प्राक् सगर्भमृगीधाते पृथग् गर्भपाते स्वस्कन्धाभिमुखमीक्षणे निबद्धम् नरकायुः । परसमयेऽपि पर्वसु स्नानमैथुनादि निषिद्धं । यदुक्तं विष्णुपुराणे
चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसङ्क्रान्तिरेव च ॥ तैलस्त्रीमांससम्भोगी, पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ।। मनुस्मृतावपि
AAAAAAAAAAA
४१६