________________
श्राद्धविधि
प्रकरणम्
अमावास्यामष्टमीं च, पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यममृतौ स्नातको द्विजः ॥
अतः पर्वावसरे सर्वशक्त्या धर्मे यतनीयम् । अवसरे हि धर्मकृत्यं कृतं स्वल्पमप्यनल्पफलं पानभोजनादिवत् । यद्वैद्यकशास्त्रम्
शरदि यज्जलं पीतं, यद् भुक्तं पौषमाघयोः । ज्येष्ठाषाढे च यत्सुप्तं, तेन जीवन्ति मानवाः ॥
वर्षासु लवणममृतं, शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥
पर्वमहिम्ना च प्रायो निर्धर्मिणामपि धर्मे, निर्दयानामपि दयायां, अविरतानामपि विरतौ, कृपणानामपि धनव्यये, कुशीलानामपि शीले, निस्तपसामपि तपसि मतिर्भवति । दृश्यते चैतत्सर्वदर्शनेष्वपि सम्प्रत्यपि । तदाह
सो जयउ जेण विहिआ, संवच्छरचाउम्मासियसुपव्वा । निद्धंधसाणवि हवइ, जेसि पभावाओ धम्ममई ॥
ततः पर्वसु पौषधादि कार्यमेव । तत्र पौषधचातुर्विध्यादिस्वरूपं अर्थदीपिकायामुक्तमित्यत्र नोच्यते । पौषधं च त्रेधा, अहोरात्र - दिवस - रात्रिपौषधभेदात् । तत्रायमहोरात्रपौषधविधिः ।
इह जम्मि दिणे सावओ पोसहं लेइ, तम्मि दिणे घरवावारं वज्जिअ पोसहसालाए गहिअपोसहजुग्गोवगरणो पोसहसालं
तृतीयः
प्रकाश:
४१७