________________
श्राद्धविधि
तृतीयः प्रकाश:
प्रकरणम्
महानेवारम्भः, ततोऽनारम्भेति पदेन पर्वसु सर्वसचित्ताहारपरिहारोऽपि कार्यतया ज्ञेयः ।
आहारनिमित्तेणं, मच्छा गच्छंति सत्तर्मि पुढवि । सच्चित्तो आहारो, न खमो मणसो वि पत्थेउं ॥
इति वचनान्नित्यं सचित्ताहारः श्राद्धेन परिहार्यो मुख्यवृत्त्या । जातु तथा कर्तुमशक्तोऽपि पर्वसु तं परिहरेत् । एवं पर्वसु | स्नान-शीर्षादिशोधन-ग्रथन-वस्त्रादिधावन-रञ्जन-शकटहलादिखेटन-मूढकादिबन्धन-यन्त्रादिवाहन-दलन-कण्डन-पेषण- | पत्रपुष्पफलादित्रोटन-सचित्तखटीवर्णिकादिमर्दन-धान्यादिलवन-लिम्पन-मृदादिखनन-गृहादिनिष्पादनाद्यारम्भः सर्वोऽपि यथाशक्ति परिहार्यः । निजकुटुम्बनिर्वाहस्याऽन्यथा कर्तुमशक्तौ पर्वस्वपि गृहिणः कियानारम्भः स्यात् । सचित्ताहारपरिहारस्तु स्वायत्तत्वादिना सुकरतया करणीय एव । गाढमान्द्यादिना सर्वसचित्तानि त्यक्तुमशक्तस्तु नामग्राहमेकादिसचित्तमुत्कलीकरणपूर्वं शेषनिःशेषसचित्तानि नियमयेत् । तथा आश्विनाष्टाह्निकाचैत्राष्टाह्निकाप्रमुखेषु पर्वसु विशेषेण पूर्वोक्तविधिविधेयः । प्रमुखशब्देन चतुर्मासकवार्षिकाद्यष्टाह्निका-चतुर्मासकत्रय-सांवत्सरपर्वादिसङ्ग्रहः । उक्तञ्च
संवच्छरचाउम्मासिएसु, अट्ठाहिआसु अ तिहीसु । सव्वायरेण लग्गइ, जिणवरपूआतवगुणेसु ॥
अत्र गुणा ब्रह्मव्रतादयः अष्टाह्निकासु चैत्राश्विनाष्टाह्निके शाश्वत्यौ, तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति । यदाहु:
४१४