________________
तृतीयः प्रकाश:
श्राद्धविधि-IN यथाशक्त्युपवासादि तपः । आदिशब्दात् स्नात्रचैत्यपरिपाटीकरणसर्वसाधुनमस्करणसुपात्रदानादिना प्राक्क्रियमाणदेवगुरु- | प्रकरणम् | पूजादानादिभ्यो विशिष्य धर्मानुष्ठानं तत्तत्कार्यम् । यतः
जइ सव्वेसु दिणेसु, पालह किरिअं तओ हवइ लटुं । जइ पुण तहा न सक्कह, तहवि हु पालिज्ज पव्वदिणं ॥
यथा विजयदशमीदीपोत्सवाक्षयतृतीयाद्यैहिकपर्वसु भोजननेपथ्यादौ विशिष्य यत्यते, तथा धर्मपर्वसु धर्मेऽपि । बाह्यलोका अप्येकादश्यमावास्यादिपर्वसु कियदारम्भवर्जनोपवासादिकं सङ्क्रान्तिग्रहणादिपर्वसु सर्वशक्त्या महादानादिकं च कुर्वन्ति । ततः श्राद्धेन पर्वदिनाः सर्वे विशिष्य पालनीयाः । पर्वाणि चैवमूचुः ।
अट्ठमि चाउद्दसि पुण्णिमा य, तहऽमावसा हवइ पव्वं । मासम्मि पव्वछक्कं, तिन्नि अ पव्वाइं पक्खम्मि ॥ तथा । बीआपंचमिअट्ठमिएगारसिचउदसी पण तिहीओ । एआओ सुअतिहीओ, गोअमगणहारिणा भणिआ ॥ बीआ दुविहे धम्मे, पंचमि नाणेसु अट्ठमी कम्मे । एगारसि अंगाणं, चउद्दसी चउदपुव्वाणं ॥
एवं पञ्चपर्वी पूर्णिमावास्याभ्यां सह षट्पर्वी च प्रतिपक्षमुत्कृष्टतः स्यात् । वर्षमध्ये त्वष्टाह्निकाचतुर्मासकादीन्यनेकानि पर्वाणि । आरम्भवर्जनं सर्वथा कर्तुमशक्तेनापि स्वल्पस्वल्पतरारम्भेण पर्वसु भाव्यम् । सचित्ताहारश्च जीवहिंसात्मकतया
४१३