________________
तृतीयः प्रकाशः
उक्तं रात्रिकृत्यमथ पर्वकृत्यमाह
पव्वेसु पोसहाई, बंभअणारंभतवविसेसाई ।
आसोअचित्तअट्ठाहिअपमुहेसु विसेसेणं ॥११॥ व्याख्या-पर्वस्वष्टमीचतुर्दश्यादिष्वागमोक्तेषु 'पोषं पुष्टिं प्रस्तावाद्धर्मस्य धत्ते इति पोषधः' तव्रतादि श्राद्धेनावश्यं कार्यमिति शेषः । यदागमः
सव्वेसु कालपव्वेसु, पसत्थो जिणमए हवइ जोगो । अट्ठमिचउद्दसीसु अ, नियमेण हविज्ज पोसहिओ ॥
आदिशब्दाद्वपुरपाटवादिपुष्टालम्बनैः पोषधस्य कर्तुमशक्यत्वे द्विष्प्रतिक्रमणबहुबहुसामायिककरणबहुसङ्ख्परूपदेशावकाशिकव्रतस्वीकरणादि कार्यम् । तथा पर्वसु ब्रह्मचर्यमनारम्भ आरम्भवर्जनं तपोविशेषः प्राक् क्रियमाणतपसोऽधिकं
४१२