________________
श्राद्धविधि
द्वितीयः
प्रकरणम्
प्रकाशः
गुणेषु यत्नसाध्येषु यत्ने चात्मनि संस्थिते । अन्योऽपि गुणिनां धुर्य इति जीवन् सहेत कः ? ॥ गौरवाय गुणा एव न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ गुणैरेव महत्त्वं स्यान्नाङ्गेन वयसापि वा । दलेषु केतकीनां हि लघीयस्सु सुगन्धिता ॥ कषायाद्युत्पत्तिनिमित्त-द्रव्य-क्षेत्रादिवस्तुपरित्यागेनापि तत्तद्दोषपरित्यागः स्यात् । उक्तञ्चतं वत्थु मुत्तव्वं, जं पइ उप्पज्जए कसायग्गी । तं वत्थु घेत्तव्वं, जत्थोवसमो कसायाणं ॥
श्रूयतेऽपि चण्डरुद्राचार्यः प्रकृतिकोधनः क्रोधोत्पत्तिपरित्यागाय शिष्येभ्यः पृथगेव स्थित्यादि चक्रे । भवस्थितेरत्यन्तदुःस्थता गतिचतुष्केऽपि प्रायो दुःखप्राचुर्यानुभवाद्भावनीया । तत्र नारकतिरश्चां दुःखैकबाहुल्यं प्रतीतम् । आह चसत्तसु खित्तजवियणा, अनुन्नकयावि पहरणेहि विणा । पहरणकयावि पंचसु तिसु परमाहम्मिअकयावि ॥ अच्छिनिमीलणमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेइयाणं, अहोनिसं पच्चमाणाणं ॥ जं नरए नेइआ, दुक्खं पावंति गोअमा ! तिक्खं । तं पुण निगोअमझे, अणंतगुणियं मुणेअव्वं ॥
तिरिआ कसंकुसारा इत्यादि । मानुष्यकेऽपि गर्भजन्मजरामरणविविधातिव्याधिदौस्थ्याधुपद्रवैर्दुःखितैव । देवत्वेऽपि च्यवनदास्यपराभवादिभिः । ऊचे च
४१०