________________
श्राद्धविधि
प्रकरणम्
काम ! जानामि ते रूपं, सङ्कल्पात् किल जायसे । न त्वां सङ्कल्पयिष्यामि, न च मे त्वं भविष्यसि ॥ नवपरिणीतमहेभ्यकन्याष्टकप्रतिबोधपितृनवनवतिकाञ्चनकोटिपरिहर्तृ श्रीजम्बूस्वामिनः सार्द्धद्वादशकाञ्चनकोटी:, कोशा| वेश्यासक्त्या विलसितवतः सपद्यात्तश्रामण्यस्य कोशाहर्म्ये चतुर्मासीस्थितस्य श्रीस्थूलभद्रस्य, अभयाराज्ञीविहितविविधानुकूलप्रतिकूलोपसर्गैरपि स्वल्पमप्यक्षुब्धमनसस्सुदर्शन श्रेष्ठ्यादेश्च दृष्टान्ताः स्पष्टा एवेति न वितन्यन्ते । कषायादिदोषजयोपायस्तत्तद्दोषप्रतिपक्षसेवादिना स्यात् । तत्र क्रोधः क्षमया, मानो मार्दवेन, माया आर्जवेन, लोभः सन्तोषेण, रागो वैराग्येण, द्वेषो मैत्र्या, मोहो विवेकेन, कामः स्त्रीशरीराशौच भावनया, मत्सरः परसम्पदुत्कर्षेऽपि चित्ताऽबाधया, विषयाः संयमेन, अशुभमनोवाक्काययोगा गुप्तित्रयेण प्रमादोऽप्रमादेन, अविरतिर्विरत्या च सुखेन जीयन्ते । न चेदं तक्षकशीर्षमणिग्रहणपीयूषपानाद्युपदेशवदशक्यानुष्ठानमित्याशङ्क्यम्, मुन्यादीनां तत्तद्दोषपरिहारेण गुणैकमयत्वभवनदर्शनात् । दृढप्रहारिचिलातीपुत्ररौहिणेयादीनां ज्ञातान्यपि प्रतीतान्येवात्र । उक्तमपि -
गता ये पूज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना ! दोषत्यागे जनयत समुत्साहमतुलम् ।
न साधूनां क्षेत्रं न च भवति नैसर्गिकमिदं, गुणान् यो यो धत्ते स स भवति साधुर्भजत तान् ॥
हंहो ! स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यैर्मया, गन्तव्यं कतिचिद्दिनानि भवता नास्मत्सकाशात् क्वचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः, को जानाति पुनस्त्वया सह मम स्याद्वा न वा सङ्गमः ? ॥
द्वितीयः
प्रकाश:
४०९