________________
श्राद्धविधि
द्वितीयः
प्रकरणम्
प्रकाशः
प्रान्तसमये तेन निर्यामिता, सुरीभूतया त्वया मत्सुतः प्रतिबोध्य इति सङ्केतिता मृता सौधर्मे सुरीभूता स्वदिव्यर्द्धिदर्शनादिना तत्सुतमबूबुधत् । एवं गृहाधिपेन प्रियापुत्रादयः प्रतिबोध्या: । जात्वेवमपि यदि ते न प्रतिबुध्यन्ते, तदा गृहाधिपस्य न दोषः । | यथोक्तम्
न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥ इति नवमगाथार्थः ॥
पायं अबंभविरओ, समए अप्पं करेइ तो निदं । निद्दोवरमे थीतणुअसुइत्ताई विचिंतिज्जा ॥१०॥
ततो धर्मदेशनानन्तरं समये रात्रिप्रथमयामाद्यतिक्रमार्द्धरात्रादिरूपे शरीरसात्म्याधुचितशय्यास्थानं गत्वा विधिना निद्रामल्पां करोति । कीदृशः सन् ? प्रायो बाहुल्येन अब्रह्म मैथुनं तस्माद्विरतः, गृहस्थेन यावज्जीवं ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणैव भाव्यम् नवयौवनवयःस्थेनापि, ब्रह्मचर्यस्य महाफलत्वात् । महाभारतेऽप्युक्तम्
एकरात्र्युषितस्यापि या गतिर्ब्रह्मचारिणः । न सा क्रतुसहस्रेण वक्तुं शक्या युधिष्ठर ! ॥
४०४