________________
श्राद्धविधि
प्रकरणम्
अत्र निद्रामिति विशेष्यम् । अल्पामिति च विशेषणम् । सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामत इति न्यायादल्पत्वमत्र विधेयं न तु निद्रा, तस्या दर्शनावरणीयकर्मोदयेन स्वतः सिद्धत्वाद् अप्राप्ते हि शास्त्रमर्थवदित्युक्तं प्राग् । बहुनिद्रो हि भवद्वयकृत्येभ्योऽपि परिभ्रश्येत् । तस्करवैरिधूर्त्तदुर्जनादिभ्यश्च सुलभपरिभवः स्यात् । अल्पनिद्रत्वं च महानुभावलक्षणम् । चदार्षम्—
थोवाहारो थोवभणिओ अ जो होइ थोवनिद्दो अ । थोवोवहिउवगरणो, तस्स हु देवावि पणमंति ॥ निद्राविधिश्चायं नीतिशास्त्राद्यनुसारेण
खट्वां जीवाकुलां ह्रस्वां भग्नां कष्टां मलीमसाम् । प्रतिपादान्वितां वह्निदारुजातां च सन्त्यजेत् ॥ शयनासनयोः काष्ठमाचतुर्योगतः शुभम् । पञ्चादिकाष्ठयोगे तु नाशः स्वस्य कुलस्य च ॥ पूज्योर्ध्वस्थो न नार्द्राङ्घिर्न चोत्तरापराशिराः । नानुवंशं न पादान्तं नागदन्तः स्वपेत् पुमान् ॥ देवताधानि वल्मीके भूरुहाणां तलेऽपि च । तथा प्रेतवने चैव सुप्यान्नापि विदिक्शिराः ॥ निरोधभङ्गमाधाय परिज्ञाय तदास्पदम् । विमृश्य जलमासन्नं कृत्वा द्वारनियन्त्रणम् ॥ इष्टदेवनमस्कारनष्टापमृतिभीः शुचिः । रक्षामन्त्रपवित्रायां शय्यायां पृथुताजुषि ॥
A A A A A A A A
द्वितीयः
प्रकाश:
४०५