________________
द्वितीयः
श्राद्धविधिप्रकरणम्
प्रकाशः
स्थानकुसंसर्गवर्जनादिरूपं, नमस्कारगुणनत्रिकालचैत्यवन्दना-पूजाप्रत्याख्यानाद्यभिग्रहरूपं, यथाशक्तिसप्तक्षेत्रीवित्तव्ययादिरूपं वा यथायोग्यं कथयत्युपदिशति । कलत्र-पुत्र-मित्र-भ्रातृ-भृत्य-भगिनी-स्नुषा-पुत्री-पौत्र-पौत्री-पितृव्य-भ्रातृव्य-वणिक्पुत्रादिस्वजनानां पुरस्तादिति शेषः । यद्दिनकृत्यम्
सव्वन्नुणा पणीअंतु, जइ धम्मं नावगाहए । इह लोए परलोए अ, तेसिं दोसेण लिप्पई ॥ जेण लोगट्ठिई एसा, जो चोरभत्तदायगो । लिप्पड़ सो तस्स दोसेण, एवं धम्मे विआणह ॥ तम्हा हु नायतत्तेणं, सडेणं तु दिणे दिणे । दव्वओ भावओ चेव, कायव्वमणुसासणं ॥
द्रव्यतः पुत्रकलत्रदुहित्रादीनां यथायोग्यं वस्त्रादि ददाति । पोष्यपोषक इति वचनात् । भावतस्तु तेषामेव धर्मदेशनां करोति । अनुशासनं सुस्थितदुःस्थितत्वादिचिन्तनमित्यर्थः । अन्यत्राप्युक्तम्
राज्ञि राष्ट्रकृतं पापं, राज्ञः पापं पुरोहिते । भर्तरि स्त्रीकृतं पापं शिष्यपापं गुरावपि ॥
कलत्रपुत्रादयो हि गृहकृत्यवैयग्र्यप्रमादबहुलत्वादिना गुरुपार्श्वे धर्ममशृण्वन्तोऽप्येवं धर्मे प्रायः प्रवर्त्तन्ते । यथा धन्यश्रेष्ठिनः, स हि धन्यः पुरस्थो गुरूपदेशैः सुश्राद्धीभूतः सायं नित्यं प्रियाचतुःपुत्रादीन् प्रतिबोधयति । क्रमात् प्रिया त्रयः पुत्राश्च प्रतिबुद्धाः ।। | तुर्यस्तु नास्तिकवत् पुण्यफलं क्वेत्यादिवादी न बुध्यते । श्रेष्ठिनः तत्प्रतिबोधाति शम् । अन्यदा प्रातिवेश्मिकी सुश्राविका वृद्धा
४०३