________________
श्राद्धविधिप्रकरणम्
नवपदान्याश्रित्य पुनरनानुपूर्व्यस्तिस्रो लक्षा द्वाषष्टिः सहस्रा अष्टौ शतान्यष्टसप्ततिश्च । एतत्करणभावनाव्यक्तिः पूज्यश्रीजिनकीर्तिसूरिपादोपज्ञसटीक श्रीपञ्चपरमेष्ठिस्तवादवसेया । एवं नमस्कारपरावर्त्तनेऽत्रापि दुष्टशाकिनीव्यन्तरवैरिग्रहमहारोगादीनां सद्यो निवृत्त्यादिफलं परत्र त्वनन्तकर्मक्षयादि । यदाहुः
जं छम्मासिअवरिसि अतवेण तिव्वेण झिज्झए पावं । नमुक्कारअणणुपुव्वीगुणणेण तयं खणद्वेण ॥
शीलाङ्गरथादीनामपि गुणने मनोवाक्कायैकाग्र्येण त्रिविधमपि ध्यानं स्यात्तथा चागमः - भंगिअसुअं गुणंतो, वट्टइ तिविहे वि | झाणम्मीति । एवं स्वाध्यायकरणे स्वपरयोः कर्मक्षयप्रतिबोधादयोऽनेके गुणा धर्मदास श्राद्धस्येव । स हि प्रत्यहं सायं प्रतिक्रम्य | स्वाध्यायं करोति, अन्यदा तेन स्वपिता सुश्राद्धोऽपि प्रकृतिकोधनः क्रोधत्यागार्थमुपदिष्टो रुष्टः काष्ठमुद्यम्य धावन् रात्रौ स्तम्भे आस्फाल्य मृतो दुष्टाहिर्जातः । अन्येद्युस्तमसि तं दष्टुमागच्छन्
तिव्वंपि पुव्वकोडीकयंपि सुकयं मुहुत्तमित्तेण । कोहग्गहिओ हणिउं, हहा ! हवइ भवदुगे वि दुही ॥
इत्यादि स्वाध्यायं तत्क्रियमाणं श्रुत्वा जातिं स्मृत्वाऽनशनं प्रपाल्य सौधर्मे सुरीभूतः सुतस्य सर्वकार्येषु सान्निध्यं विदधे । धर्मदासस्य चैवमन्यदा स्वाध्यायध्यानलीनस्यैव केवलज्ञानमुत्पेदे । अतः स्वाध्यायः कार्यः । ततः सामायिकं पारयित्वा गृहं गतो धर्मं सम्यक्त्वमूलदेशविरत्यादिरूपं, सर्वकृत्येषु सर्वशक्त्या यतनाकरणादिरूपं, सर्वथाऽर्हच्चैत्यसाधर्मिकवर्जितवास
AAAA
द्वितीयः
प्रकाशः
४०२