SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि प्रकरणम् मुहपोती वंदणयं, संबुद्धाखामणं तहालोए । वंदणपत्तेअक्खामणं च वंदणयमहसुत्तं ॥ सुत्तं अब्भुवाणं, उस्सग्गो पुत्तिवंदणं तह य । पज्जंतिअ खामणयं, तह च उरोथोभवंदणया ॥ पुव्वविहिणेव सव्वं, देवसिअं वंदणाड़ तो कुणइ । सिज्जसुरी उस्सग्गे, भेओ संतिथयपढणे अ ॥ एवं चिअ चउमासे, वरिसे अ जहक्कमं विही णेओ । पक्खचउमासवरिसेसु नवरि नामम्मि नाणत्तं ॥ तह उस्सग्गोजोआ, बारसवीसासमंगलगचत्ता । संबुद्धखामणं ति पण सत्त साहूण जहसंखं ॥ हारिभद्रावश्यकवृत्तौ तु वन्दनकनिर्युक्तिगत - चत्तारि पडिक्कमणे इति गाथाव्याख्यायामेवमुक्तं सम्बुद्धक्षमणकविषये – जहन्नेणवि तिन्नि देवसिए, पक्खिए पंच अवस्सं, चाउम्मासिए संवच्छरिए वि सत्त अवस्सं । पाक्षिकसूत्रवृत्तौ प्रवचनसारोद्धारवृत्त्युक्तवृद्धसामाचार्यां चाप्येवमवोक्तम् । प्रतिक्रमणानुक्रमभावना पूज्य श्रीजयचन्द्रसूरिकृतग्रन्थाद् ज्ञेया । इति प्रतिक्रमणविधिः । तथा आशातनापरिहारादिकेन विधिना विश्रामणाम् उपलक्षणत्वात् सुखसंयमयात्रापृच्छादि च करोति, अर्थान् मुनीनां विशेषधर्मनिष्ठश्राद्धादीनां च । विश्रामणाफलं प्राग्भवयतिपञ्चशतीविश्रामणाकरणोत्थचत्र्यधिकबलबाहुबल्यादेरिव भाव्यम् । इह साधुभिरुत्सर्गतः सम्बाधना न कारयितव्या, 'संबाहणं दंतपहोअणाय' इति वचनात् । द्वितीयपदे साधुभ्यः सकाशात् कारयितव्या | तदभावे तथाविधश्रावकादेरपि । यद्यपि मुख्यवृत्त्या भगवन्तो महर्षयो विश्रामणां न कारयन्ति, तथापि परिणामविशुद्धया तद्विषये द्वितीयः प्रकाश: ४००
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy